Saattvata Samhita
सात्त्वत संहिता
प्रथम परिच्छेदः
विष्णोराराधनपरा मुनयो मलयाचले ।
संस्थिताः सिद्वगन्धर्वविद्याधरनिषेविते ॥ १ ॥
कालेन केनचित् स्वर्गाद्रामदर्शनलालसः ।
तत्रावतीर्णो देवर्षिर्नारदो भगवन्मयः ॥ २ ॥
ज्ञात्वा तस्याचलां भक्तिं देवः परशुलाञ्छनः ।
प्रत्यक्षमगमच्छश्वत् सानुकम्पेन चेतसा ॥ ३ ॥
ततः प्रहृष्टवदनः प्रोत्फुल्लपुलको मुनिः ।
पूजयामास तं देवमष्टाङ्गपतनादिना ॥ ४ ॥
अथाह भगवान् रामो मधुराक्षरया गिरा ।
तवास्ति भक्तिरचला जन्मबीजक्षयङ्करी ॥ ५ ॥
एषा तु सात्वती शुद्धा नित्यमव्यभिचारिणी ।
तिष्ठन्ति मुनयो ह्यत्र प्रार्थयाना हरेः पदम् ॥ ६ ॥
तान् सात्वते क्रियामार्गे मद्वाक्याद्याहि योजय ।
एवमुक्त्वा तु तं विप्रमृषीणां हितकाम्यया ॥ ७ ॥
जगामादर्शनं देवस्तस्माद्देशात् तटिद्यथा ।
स तु हृष्टमना वाक्यं शिरसा चाभिवाद्य तत् ॥ ८ ॥
निर्जगामार्चयित्वाऽथ पुष्पैः स्थानवरं तु तत् ।
अपश्यदाश्रमं चान्यं नानाद्विजनिषेवितम् ॥ ९ ॥
तरुपुष्पफलैराढ्यं वापीकूपह्रदान्वितम् ।
सम्प्रहृष्टस्ततस्तत्स्थैर्द्विजेन्द्रैरभिवादितः ॥ १० ॥
पूजितश्चार्घ्यपाद्येन विनिवेशितविष्टरः ।
अथाञ्जलिधराः सर्वे प्रोत्फुल्ल२३नयनाम्बुजाः ॥ ११ ॥
वदन्ति जन्मसाफल्यमद्य नस्तव दर्शनात् ।
श्रुत्वा तत्प्रीतिजनकं वाक्यं प्रणयपेशलम् ॥ १२ ॥
नमस्कृत्य हृषीकेशं मुनिरप्याह नारदः ।
मन्ये कृतार्थमात्मानं नूनं विप्रवरा ह्यहम् ॥ १३ ॥
भवद्भिः सह सम्बन्धो यस्य मेऽस्मिन् शुभाश्रमे ।
उक्तोऽहं भवतामर्थे रामेणाक्लिष्टकर्मणा ॥ १४ ॥
यत् तदेकमनाः सर्वे आकर्णयत साम्प्रतम् ।
अद्यप्रभृति देवेशमाराधयत केशवम् ॥ १५ ॥
रहस्याम्नायविधिना शश्वन्मोक्षप्रदेन तु ।
ऋषय ऊचुः—
मुने चिरप्रपन्नानां प्रकृष्टानां भवान् गतिः ॥ १६ ॥
नारायणपप्राप्तेर्यच्छ्रेयस्तत् प्रकाशय ।
नारद उवाच —
यच्चोदितेन हलिना प्रागुक्तं चक्रपाणिना ॥ १७ ॥
पारम्पर्यागतं तन्मे गदतः श्रृणुत द्विजाः ।
पुराऽतीते कृते प्राप्ते त्रेताख्ये ह्यपरे युगे ॥ १८ ॥
ईषदारक्ततां याते जगद्धातरि चाच्युते ।
आह सङ्कर्षणो विष्णुं ज्ञात्वा विनयवानपि ॥ १९ ॥
किमिदं देव पश्यामि तव रूपविपर्ययम् ।
प्रहस्योवाच भगवान् मेघगम्भीरया गिरा ॥ २० ॥
नायं स कालो यत्रासीत् सत्त्वैकबहुलो जनः ।
अद्य रागपरो लोकस्तदृत्तं धारयाम्यहम् ॥ २१ ॥
सङ्कर्षण उवाच —
कालस्वभावजः केन कर्मणा राग ईदृशः ।
नाच्छादयति लोकानां त्वद्भक्तानां विशेषतः ॥ २२ ॥
श्रीभगवानुवाच —
त्रिविधेन प्रकारेण परमं ब्रह्म शाश्वतम् ।
आराधयन्ति ये तेषां रागस्तिष्ठति दूरतः ॥ २३ ॥
शङ्कर्षण उवाच —
भगवंस्त्रिविधं ब्रूहि उपेयं ब्रह्मलक्षणम् ।
हितार्थं च प्रपन्नानां व्यामोहविनिवृत्तये ॥ २४ ॥
श्रीभगवानुवाच —
षाड्गुण्यविग्रहं देवं भास्वज्ज्वलनतेजसम् ।
सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् ॥ २५ ॥
परमेतत् समाख्यातमेकं सर्वाश्रयं प्रभुम् ।
एतत्पूर्वं त्रयं चान्यज्ज्ञानाद्यैर्भेदितं गुणैः ॥ २६ ॥
विद्धि तद्व्यूहसंज्ञं सद्निःश्रेयसफलप्रदम् ।
मुख्यानुवृत्तिभेदेन युक्तं ज्ञानादिकैर्गुणैः ।
नानाकृतिं च तद्विद्धिवैभवं भुक्तिमुक्तिदम् ॥ २७ ॥