The Dvaadasha Stotras of Shri Madhvacharya

Stotra

॥ द्वादश स्तोत्राणि ॥

अथ प्रथमस्तोत्रम् (श्रीस्तुतिः)

विश्वस्थितिप्रळयसर्गमहाविभूति वृत्तिप्रकाशनियमावृति बन्धमोक्षाः ।
यस्या अपाङ्गलवमात्रत ऊर्जिता सा श्रीः यत्कटाक्षबलवत्यजितं नमामि ॥ १ ॥

ब्रह्मेशशक्ररविधर्मशशाङ्कपूर्व गीर्वाणसन्ततिरियं यदपाङ्गलेशम् ।
आश्रित्य विश्वविजयं विसृजत्यचिन्त्या श्रीः यत्कटाक्षबलवत्यजितं नमामि ॥ २ ॥

धर्मार्थकामसुमतिप्रचयाद्यशेषसन्मङ्गलं विदधते यदपाङ्गलेशम् ।
आश्रित्य तत्प्रणतसत्प्रणता अपीड्या श्रीः यत्कटाक्षबलवति अजितं नमामि ॥ ३ ॥

षड्वर्गनिग्रहनिरस्तसमस्तदोषा ध्यायन्ति विष्णुमृषयो यदपाङ्गलेशम् ।
आश्रित्य यानपि समेत्य न याति दुःखं श्रीः यत्कटाक्षबलवति अजितं नमामि ॥ ४ ॥

शेषाहिवैरिशिवशक्रमनुप्रधान चित्रोरुकर्मरचनं यदपाङ्गलेशम् ।
आश्रित्य विश्वमखिलं विदधाति धाता श्रीः यत्कटाक्षबलवति अजितं नमामि ॥ ५ ॥

शक्रोग्रदीधितिहिमाकरसूर्यसूनु पूर्वं निहत्य निखिलं यदपाङ्गलेशम् ।
आश्रित्य नृत्यति शिवः प्रकटोरुशक्तिः श्रीः यत्कटाक्ष बलवति अजितं नमामि ॥ ६ ॥

तत्पादपङ्कजमहासनतामवाप शर्वादिवन्द्यचरणो यदपाङ्गलेशम् ।
आश्रित्य नागपतिः अन्यसुरैर्दुरापां श्रीः यत्कटाक्षबलवति अजितं नमामि ॥ ७ ॥

नागारिरुग्रबलपौरुष आप विष्णुवाहत्वमुत्तमजवो यदपाङ्गलेशम् ।
आश्रित्य शक्रमुखदेवगणैः अचिन्त्यं श्रीः यत्कटाक्ष बलवति अजितं नमामि ॥ ८ ॥

आनन्दतीर्थमुनिसन्मुखपंकजोत्थं साक्षाद्रमाहरिमनः प्रियं उत्तमार्थम् ।
भक्त्या पठति अजितमात्मनि सन्निधाय यः स्तोत्रमेतभियाति तयोरभीष्टम् ॥ ९ ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यकृता श्रीस्तुतिः समाप्ता ॥