Shri Narasimha Nakha Stuti

॥ श्रीनृसिंहनखरस्तुतिः ॥

ॐ ॥ रामोऽखिलानन्दतनुः स एव भीमोऽतिपापेषु दुरन्तवीर्यः ।
कामः स एवाजितकामिनीषु सोमः स एवाऽत्मपदाश्रितेषु ॥

पान्त्वस्मान् पुरुहूतवैरिबलवन्मातङ्गमाद्यद्घटाकुम्भोच्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिताः ।
श्रीमत्कण्ठीरवास्यप्रततसुनखरा दारितारातिदूर प्रध्वस्तध्वान्तशान्तप्रविततमनसा भाविता भूरिभागैः ॥ १ ॥

लक्ष्मीकान्त समन्ततोऽपि कलयन् नैवेशितुस्ते समं पश्याम्युत्तमवस्तु दूरतरतोऽपास्तं रसो योऽष्टमः ।
यद्रोषोत्करदक्षनेत्रकुटिलप्रान्तोत्थिताग्निस्फुरत्खद्योतोपमविस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः ॥ २ ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यकृता श्रीनृसिंहनखरस्तुतिः समाप्ता ॥