Shri Narasimha Stuti
॥ श्रीनरसिंहस्तुतिः ॥
            उदयरविसहसरद्योतितं रूक्षवीक्षं प्रळयजलधिनादं कल्पकृद्धहिवक्त्रम् ।
            सुरपतिरिपुवक्षश्छेद रक्तोक्षिताङ्गं प्रणतभयहरं तं नारसिंहं नमामि ॥ १ ॥
        
            प्रळयरविकरालाकाररुक्वक्रवालं विरलयदुरुरोचीरोचिताशान्तराल ।
            प्रतिभयतमकोपात्युत्कटोच्चाट्टहासिन् दह दह नरयिंहासह्यवीर्याहितं मे ॥ २ ॥
        
            सरसरभसपादापातभाराभिराव प्रचकितचलसप्तद्वन्द्वलोकस्तुतस्त्वम् ।
            रिपुरुधिरनिषेकेणैव खोणङ्किशालिन् दह दह नरयिंहासह्यवीर्याहितं मे ॥ ३ ॥
        
            तव घनघनघोषो घोरमापघ्राय जङ्घापरिघमलघुमूरुव्याजतेजोगिरिं च ।
            चनविघटितमागाद्दैत्यजङ्घालसङ्घो दह दह नरयिंहासह्यवीर्याहितं मे ॥ ४ ॥
            राजद्धाटकाग्र्यस्थलाभाप्रकटपटतटित्ते सत्कटिस्थातिपद्वी ।
            कटुककटुकदुष्टाटोपदष्टिप्रमुष्टौ दह दह नरसिंहासह्यवीर्याहितं मे ॥ ५ ॥
            प्रखरनखरवज्रोत्खातरूक्षादिवक्षः शिखरिशिखररक्तैराक्तसन्दोहदेह ।
            सुवकिभञुभकुक्ष भद्रगम्भीरनाभे दह दह नरसिंहासदह्यवीर्याहितं मे ॥ ६ ॥
            स्फुरयति तव साक्षात्सैव नक्षत्रमाला क्षपितदितिजवक्षोव्याप्तनक्षत्रमार्गम् ।
            अरिद्रधरजान्वासक्तहस्तद्वयाहो दह दह नरयसिंहासह्यवीर्याहितं मे ॥ ७ ॥
            कटुविकटसटौघोद्धट्टनोद्भ्रष्टभूयो घचनपटलविशालाकाशलब्धावकाशम् ।
            करपरिचविमर्दप्रोद्यमं ध्यायतस्ते दह दह नरयसिंहासह्यवीर्याहितं मे ॥ ८ ॥
            हठलुठदलधिष्ठोत्कण्ठ दष्टोष्ठ विद्युत्सट शठकठिनोरःपीठभित्सुष्ठुनिष्ठाम् ।
            पठति नु तव कण्ठाधिष्ठघोरान्त्रमाला दह दह नरसिंहासदह्यवीर्याहितं मे ॥ ९ ॥
            हत बहुमिहिराभासह्यसंहाररंहो हुतवहबहुहेतिह्रेषितानन्तहेति ।
            अहितविहितमोहं संवहन् सैंहमास्यं दह दह नरसिंहासदह्यवीर्याहितं मे ॥ १० ॥
            गुरुगुरुगिरिराजत्कन्दरान्तर्गते वा दिनमणिमणिश्रृङ्गे वान्तवह्निप्रदीप्ते ।
            दधदतिकदुदंष्ट्रे भीषणोञ्जिह्ववक्त्रे दह दह नरसिंहासदह्यवीर्याहितं मे ॥ ११ ॥
            अधरितविबुधाब्धिध्यानधैर्यं विदध्यद्विविधविबुधधीश्रद्धापितेन्द्रारिनाशम् ।
            विदधदतिकटाहोद्धट्टहासं दह दह नरसिंहासह्यवीर्याहितं मे ॥ १२ ॥
            त्रिभुवनतृणमात्रत्राणतृष्णार्द्रनेत्रत्रयमतिलधितार्चिर्विष्टपादम् ।
            नवतररविताम्रं धारयन् रूक्षवीक्षं दह दह नरसिंहासह्यवीर्याहितं मे ॥ १३ ॥
            भ्रमदभिभवभूभृद्भूरिभूभारसद्भिद्भिदनवविभवभ्रूविभ्रमादभ्रशुभ्र ।
            ऋभुभवभयभेत्तर्भासि भोभोविभोभी दह दह नरयिंहासह्यवीर्याहितं मे ॥ १४ ॥
            श्रवणकचितचञ्चत्कुण्डलोच्चण्डगण्ड भ्रुकुटिकटुललाटश्रेष्ठनासारुणोष्ठ ।
            वरद सुरद राजत्केसरोत्सारितारे दह दह नरसिंहासह्यवीर्याहितं मे ॥ १५ ॥
            कविकचकचराजद्रत्नकोटीरशालिन् गलगतगलदुस्रोदाररत्नाङ्गदाढ्य ।
            कनककटककाञ्चीशिञ्जिनीमुद्रिकावन् दह दह नरसिंहासह्यवीर्याहितं मे ॥ १६ ॥
            अरिद्रमसिखेटौ बाणचापे गदां सन्मुसलमपि दधानः पाशवर्यांकुशौ च ।
            करयुगलधृतान्त्रस्रग्विभिन्नारिवक्षो दह दह नरयिंहासह्यवीर्याहितं मे ॥ १७ ॥
            चट चट चट दूरं मोहय भ्रामयारीन् कडि कडि कडि कायं ज्वालरय स्फोटयस्व ।
            जहि जहि जहि वेगं शात्रवं सानुबन्धं दह दह नरसिंहासह्यवीर्याहितं मे ॥ १८ ॥
            विधिभवविबुधेशभ्रामकाग्निस्फुलिङ्गप्रसविविकटदंष्ट्रोज्जिह्ववक्त्रत्रिनेत्र ।
            कलकलकल कामं पाहि मां ते सुभक्तं दह दह नरसिंहासह्यवीर्याहितं मे ॥ १९ ॥
            कुरु कुरु करुणां तां साङ्कुरां दैत्यपोते दिश दिश विशदां मे शाश्वतीं देवदृष्टिम् ।
            जय जय जयमूर्तऽनार्त जेतव्यपक्षं दह दह नरसिंहासह्यवीर्याहितं मे ॥ २० ॥
            स्तुतिरियमहितघ्नी सेविता नारसिंही तनुरिव परिशान्ता मालिनी साभितोलम् ।
            तदखिलगुरुमाग्न्याश्रीदरूपा महद्भिस्सुनियमनयकृत्यैस्सद्गुणैर्नित्ययुक्ता ॥ २१ ॥
            लिकुचतिलकसूनुस्सद्धितार्थानुसारी नरहरिनुतिमेतां शत्रुसंहारहेतुम् ।
            अकृत सकलपापध्वंसिनीं यः पठेत्तां व्रजति नृहरिलोकं कामलोभाद्यसक्तः ॥ २२ ॥
        
इति श्रीमन्नारायणपण्डिताचार्य विरचिता श्रीनरसिंहस्तुतिः समाप्ता ॥