Shri Vishnu Stuti

॥ श्रीविष्णुस्तुतिः ॥

श्रीमध्वसंसेवितपादपद्मं रुद्रादिदेवैः परिसेव्यमानम् ।
ऋष्यादिभिर्वेदपथैः सुगेयं कथं नु पश्येयममोघवीर्यम् ॥ १ ॥

हृन्मन्दिरे सुन्दररत्नपीठे लक्ष्म्यात्मके सारतरे निविष्टम् ।
श्रीभूसमाश्लिष्टतनुं तथाऽपि पूर्णं निजानन्दमयं परेशम् ॥ २ ॥

अनन्तपूर्णेन्दुकिरीटशोभितं सुनीलस्निग्धालकशोभिसन्मुखम् ।
प्रत्यग्रकञ्जायतलोललोचनं सुचम्पकाकोरकनासिकायुतम् ॥ ३ ॥

प्रवालमध्यार्पितकुन्दकोरकं स्फुरत्कपोलद्युतिदीप्तकुण्डलम् ।
केयूरभूषायुतबाहुदण्डकं सुचक्रशङ्खाब्जगदाविराजितम् ॥ ४ ॥

ग्रैवेयरत्नाभरणादिभूषितं सत्कौस्तुभावेष्टितकम्बुकन्धरम् ।
सुवर्णसूत्राञ्चितसुन्दरोरसं विचित्रपिताम्बरधारिणं प्रभुम् ॥ ५ ॥

करिराजकरोपमोरुयुग्मं प्रियया सेवितजङ्घया समेतम् ।
वरकूर्मप्रपदेन शोभमानं ह्यनभिव्यक्तसुगुल्फपादयुग्मम् ॥ ६ ॥

नखराजिसुपूर्णचन्द्रकान्त्या नुतिमज्जनतापहारिणं रमेशम् ।
निजपूर्णसुबोधविग्रहं परमानन्दपरात्मदैवतम् ॥ ७ ॥

॥ इति श्रीत्रिविक्रमपण्डिताचार्यविरचिता श्रीविष्णुस्तुतिः समाप्ता ॥