Anubhaashya

॥ ब्रह्मसूत्राणुभाष्यम् ॥

॥ प्रथमोध्यायः ॥

नारायणं गुणैः सर्वैरुदीर्णं दोषवर्जितम् ।
ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते ॥

विष्णुरेव विजिज्ञास्यः सर्वकर्ताऽगमोदितः ।
समन्वयादीक्षतेश्च पूर्णानन्दोऽन्तरः खवत्‌ ॥ १ ॥

प्रणेता ज्योतिरित्याद्यैः प्रसिद्धैरन्यवस्तुषु ।
उच्यते विष्णुरेवैकः सर्वैः सर्वगुणत्वतः ॥ २ ॥

सर्वगोऽत्ता नियन्ता च दृश्यत्वाद्युज्झितः सदा ।
विश्वजीवान्तरत्वाद्यैर्लिङ्गैः सर्वैर्युतः स हि ॥ ३ ॥

सर्वाश्रयः पूर्णगुणः सोऽक्षरः सन्‌ हृदब्जगः ।
सूर्यादिभासकः प्राणप्रेरको दैवतैरपि ॥ ४ ॥

ज्ञेयो न वेदैः शूद्रादैः कम्पकोऽन्यश्च जीवतः ।
पतित्वादिगुणैर्युक्तः तदन्यत्र च वाचकैः ॥ ५ ॥

मुख्यतः सर्वशब्दैश्च वाच्य एको जनार्दनः ।
अव्यक्तः कर्मवाच्यैश्च वाच्य एकोऽमितात्मकः ॥ ६ ॥

अवान्तरं कारणं च प्रकृतिः शून्यमेव च ।
इत्याद्यन्यत्र नियतैरपि मुख्यतयोदितः ।
शब्दैरतोऽनन्तगुणो यच्छब्दा योगवृत्तयः ॥ ७ ॥

इति प्रथमोऽध्यायः ॥

॥ द्वितीयोऽध्यायः ॥

श्रौतस्मृतिविरुद्धत्वात्‌ स्मृतयो न गुणान् हरेः ।
निषेद्धुं शक्नुयुर्वेदा नित्यत्वान्मानमुत्तमम्‌ ॥ १ ॥

देवतावचनादापो वदन्तीत्यादिकं वचः ।
नायुक्तवाद्यसन्नैव कारणं दृश्यते क्वचित् ॥ २ ॥

असज्जीवप्रधानादिशब्दा ब्रह्मैव नापरम्‌ ।
वदन्ति कारणत्वेन क्वापि पूर्णगुणो हरिः ॥ ३ ॥

स्वातन्त्र्यात् सर्वकर्तृत्वान्नायुक्तं तद्वदेच्छ्रुतिः ।
भ्रान्तिमूलतया सर्वसमयानामयुक्तितः ॥ ४ ॥

न तद्विरोधाद्वचनं वैदिकं शङ्क्यतां व्रजेत्‌ ।
आकाशादिसमस्तं च तज्जं तेनैव लीयते ॥ ५ ॥

सोऽनुत्पत्तिलयः कर्ता जीवः तद्वशगः सदा ।
तदाभासो हरिः सर्वरूपेष्वपि समः सदा ॥ ६ ॥

मुख्यप्राणश्चेन्द्रियाणि देहश्चैव तदुद्भवः ।
मुख्यप्राणवशे सर्वं स विष्णोर्वशगः सदा ॥ ७ ॥

सर्वदोषोज्झितः तस्माद्‌ भगवान्‌ पुरुषोत्तमः ।
उक्ता गुणाश्चाविरुद्धास्तस्य वेदेषु सर्वशः ॥ ८ ॥

इति द्वितीयोऽध्यायः ॥

॥ तृतीयोऽध्यायः ॥

शुभेन कर्मणा स्वर्गं निरयं च विकर्मणा ।
मिथ्याज्ञानेन च तमो ज्ञानेनैव परं पदम्‌॥ १ ॥

याति तस्माद्विरक्तः सन्‌ ज्ञानमेव समाश्रयेत्‌ ।
सर्वावस्थाप्रेरकश्च सर्वरूपेष्वभेदवान्‌ ॥ २ ॥

सर्वदेशेषु कालेषु स एकः परमेश्वरः ।
तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम्‌ ॥ ३ ॥

सच्चिदानन्द आत्मेति मानुषैस्तु सुरेश्वरैः ।
यथाक्रमं बहुगुणैर्ब्रह्मणा त्वखिलैर्गुणैः ॥ ४ ॥

उपास्यः सर्वदेवैश्च सर्वैरपि यथा बलम्‌ ।
ज्ञेयो विष्णुर्विशेषस्तु ज्ञाने स्यादुत्तरोत्तरम् ॥ ५ ॥

सर्वेऽपि पुरुषार्थास्युः ज्ञानादेव न संशयः ।
न लिप्यते ज्ञानावांश्च सर्वदोषैरपि क्वचित्‌ ॥ ६ ॥

गुणदोषैः सुखस्यापि वृद्धिह्रासौ विमुक्तिगौ ।
नृणां सुराणां मुक्तौ तु सुखं क्लृप्तं यथाक्रमम्‌ ॥ ७ ॥

इति तृतीयोऽध्यायः ॥

॥ चतुर्थोऽध्यायः ॥

विष्णुर्ब्रह्म तथाऽदातेत्येवं नित्यमुपासनम्‌ ।
कार्यमापद्यपि ब्रह्म तेन यात्यपरोक्षताम्‌ ॥ १ ॥

प्रारब्धकर्मणोऽन्यस्य ज्ञानादेव परिक्षयः ।
अनिष्टस्योभयस्यापि सर्वस्यान्यस्य भोगतः ॥ २ ॥

उत्तरेषूत्तरेष्वेवं यावद्वायुं विमुक्तिगाः ।
प्रविश्य भुञ्जते भोगांस्तदन्तर्बहिरेव वा ॥ ३ ॥

वायुर्विष्णुं प्रविश्यैव भोगांश्चैवोत्तरोत्तरम्‌ ।
उत्क्रम्य मानुषा मुक्तिं यान्ति देहक्षयात् सुराः ॥ ४ ॥

अर्चिरादिपथा वायुं प्राप्य तेन जनार्दनम्‌ ।
यान्त्युत्तमा नरोच्चाद्या ब्रह्मलोकात् सहाऽमुना ॥ ५ ॥

यथासङ्कल्पभोगाश्च चिदानन्दशरीरिणः।
जगत्सृष्ट्यादिविषये महासामर्थ्यमप्यृते ॥ ६ ॥

यथेष्टशक्तिमन्तश्च विना स्वाभाविकोत्तमान्‌ ।
अनन्यवशगाश्चैव वृद्धिह्रासविवर्जिताः ।
दुःखादिरहितं नित्यं मोदन्तेऽविरतं सुखम्‌ ॥ ७ ॥

पूर्णप्रज्ञेन मुनिना सर्वशास्त्रार्थसङ्ग्रहः ।
कृतोऽयं प्रीयतां तेन परमात्मा रमापतिः ॥ ८ ॥

नमो नमोऽशेषदोषदूरपूर्णगुणात्मने ।
विरिञ्चिशर्वपूर्वेड्‌यवन्द्याय श्रीवराय ते ॥ ९ ॥

इति चतुर्थोऽध्यायः ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं ब्रह्मसूत्राणुभाष्यं सम्पूर्णम्‌ ॥