Shri Krshnaamrta Mahaarnava

॥ कृष्णामृतमहार्णवः ॥

अर्चितः संस्मृतो ध्यातः कीर्तितः कथितः श्रुतः ।
यो ददात्यमृतत्वं हि स मां रक्षतु केशवः ॥ १ ॥

तापत्रयेण सन्तप्तं यदेतदखिलं जगत् ।
वक्ष्यामि शान्तये तस्य कृष्णामृतमहार्णवम् ॥ २ ॥

ते नराः पशवो लोके किं तेषां जीवने फलम् ।
यैर्न लब्धा हरेर्दीक्षा नार्चितो वा जनार्दनः ॥ ३ ॥

संसारेस्मिन् महाघोरे जन्मरोगभयाकुले ।
अयमेको महाभागः पूज्यते यदधोक्षजः ॥ ४ ॥

स नाम सुकृती लोके कुलं तेनाभ्यलङ्कृतम् ।
आधारः सर्वभूतानां येन विष्णुः प्रसादितः ॥ ५ ॥

यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् ।
तद्विशिष्टफलं नॄणां सदैवाराधनं हरेः ॥ ६ ॥

कलौ कलिमलध्वंसिसर्वपापहरं हरिम् ।
येर्चयन्ति सदा नित्यं तेपि वन्द्या यथा हरिः ॥ ७ ॥

नास्ति श्रेयस्तमं नॄणां विष्णोराराधनान्मुने ।
युगेस्मिंस्तामसे लोके सततं पूज्यते नृभिः ॥ ८ ॥

अर्चिते देवदेवेशे शङ्खचक्रगदाधरे ।
अर्चिताः सर्वदेवाः स्युर्यतः सर्वगतो हरिः ॥ ९ ॥

स्वर्चिते सर्वलोकेशे सुरासुरनमस्कृते ।
केशवे कंसकेशिघ्ने न याति नरकं नरः ॥ १० ॥

सकृदभ्यर्च्य गोविन्दं बिल्वपत्रेण मानवः ।
मुक्तिभागी निरातङ्की विष्णुलोके चिरं वसेत् ॥ ११ ॥

शङ्करः —
सकृदभ्यर्चितो येन देवदेवो जनार्दनः ।
यत्कृतं तत्कृतं तेन सम्प्राप्तं परमं पदम् ॥ १२ ॥

सकृदभ्यर्चितो येन हेलयापि नमस्कृतः ।
स याति परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ १३ ॥

नारदः समस्तलोकनाथस्य देवदेवस्य शांर्गिणः ।
साक्षाद्भगवतो विष्णोः पूजनं जन्मनः फलम् ॥ १४ ॥

पुलस्त्यः भक्त्या दूर्वाङ्कुरैः पुम्भिः पूजितः पुरुषोत्तमः ।
हरिर्ददाति हि फलं सर्वयज्ञैश्च दुर्लभम् ॥ १५ ॥

विधिना देवदेवेशः शङ्खचक्रधरो हरिः ।
फलं ददाति सुलभं सलिलेनापि पूजितः ॥ १६ ॥

नरके पच्यमानस्तु यमेन परिभाषितः ।
किं त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥ १७ ॥

धर्मः द्रव्याणामप्यभावे तु सलिलेनापि पूजितः ।
यो ददाति स्वकं स्थानं स त्वया किं न पूजितः ॥ १८ ॥

नरसिंहो हृषीकेशः पुण्डरीकनिभेक्षणः ।
स्मरणान्मुक्तिदो नॄणां स त्वया किं न पूजितः ॥ १९ ॥

ब्रह्मा गर्भस्थिता मृता वापि मुषितास्ते सुदूषिताः ।
न प्राप्ता यैर्हरेर्दीक्षा सर्वदुःखविमोचनी ॥ २० ॥

मार्कण्डेयः सकृदभ्यर्चितो येन देवदेवो जनार्दनः ।
यत्कृतं तत्कृतं तेन सम्प्राप्तं परमं पदम् ॥ २१ ॥

धर्मार्थकाममोक्षाणां नान्योपायस्तु विद्यते ।
सत्यं ब्रवीमि देवेश हृषीकेशार्चनादृते ॥ २२ ॥

तस्य यज्ञवराहस्य विष्णोरमिततेजसः ।
प्रणामं ये प्रकुर्वन्ति तेषामपि नमो नमः ॥ २३ ॥

मरीचिः अनाराधितगोविन्दैर्नरैः स्थानं नृपात्मज ।
न हि सम्प्राप्यते श्रेष्ठं तस्मादाराधयाच्युतम् ॥ २४ ॥

अत्रिः —
परः पराणां पुरुषस्तुष्टो यस्य जनार्दनः ।
स चाप्नोत्यक्षयं स्थानमेतत्सत्यं मयोदितम् ॥ २५ ॥

अङ्गिराः —
यस्यान्तः सर्वमेवेदमच्युतस्याव्ययात्मनः ।
तमाराधय गोविन्दं स्थानमग्य्रं यदीच्छसि ॥ २६ ॥

पुलस्त्यः —
परं ब्रह्म परं धाम योसौ ब्रह्म सनातनम् ।
तमाराध्य हरिं याति मुक्तिमप्यतिदुर्लभाम् ॥ २७ ॥

ऐन्द्रमिन्द्रः परं स्थानं यमाराध्य जगत्पतिम् ।
प्राप यज्ञपतिं विष्णुं तमाराधय सुव्रत ॥ २८ ॥

प्राप्नोत्याराधिते विष्णौ मनसा यद्यदिच्छति ।
त्रैलोक्यान्तर्गतं स्थानं किमु लोकोत्तरोत्तरम् ॥ २९ ॥

ये स्मरन्ति सदा विष्णुं शङ्खचक्रगदाधरम् ।
सर्वपापविनिर्मुक्ताः परं ब्रह्म विशन्ति ते ॥ ३० ॥

ततोनिरुद्धं देवेशं प्रद्युम्नं च ततः परम् ।
ततः सङ्कर्षणं देवं वासुदेवं परात्परम् ॥ ३१ ॥

वासुदेवात् परं नास्ति इति वेदान्तनिश्चयः ।
वासुदेवं प्रविष्टानां पुनरावर्तनं कुतः ॥ ३२ ॥

आत्रेयः —
यो यानिछेन्नरः कामान् नारी वा वरवर्णिनी ।
तान्समाप्नोति विपुलान्समाराध्य जनार्दनम् ॥ ३३ ॥

ब्रह्मा —
बाहुभ्यां सागरं तर्तुं क इच्छेत पुमान् भुवि ।
वासुदेवमनाराध्य को मोक्षं गन्तुमिच्छति ॥ ३४ ॥

कौशिकः —
अनाराधितगोवन्दा ये नरा दुःखभागिनः ।
आराध्य वासुदेवं स्युर्नित्यानन्दैकभागिनः ॥ ३५ ॥

शङ्करः —
कृते पापेनुतापो वै यस्य पुंसः प्रजायते ।
प्रायश्चित्तं तु तस्योक्तं हरिसंस्मरणं परम् ॥ ३६ ॥

नाम्नोस्ति यवती शक्तिः पापनिर्हरणे हरेः ।
तावत्कर्तुं न शक्नोति पातकं पातकी जनः ॥ ३७ ॥

ब्रह्मा —
न ह्यपुण्यवतां लोके मूढानां कुटिलात्मनाम् ।
भक्तिर्भवति गोविन्दे स्मरणं कीर्तनं तथा ॥ ३८ ॥

तदैव पुरुषो मुक्तो जन्मदुःखजरादिभिः ।
जितेन्द्रियो विशुद्धात्मा यदैव स्मरते हरिम् ॥ ३९ ॥

प्राप्ते कलियुगे घोरे धर्मज्ञानविवर्जिते ।
न कश्चित्स्मरते देवं कृष्णं कलिमलापहम् ॥ ४० ॥

न कलौ देवदेवस्य जन्मदुखापहारिणः ।
करोति मर्त्यो मूढात्मा स्मरणं कीर्तनं हरेः ॥ ४१ ॥

ये स्मरन्ति सदा विष्णुं विशुद्धेनान्तरात्मना ।
ते प्रयान्ति भयं त्यक्त्वा विष्णुलोकमनामयम् ॥ ४२ ॥

गर्भजन्मजरारोगदुःखसंसारबन्धनैः ।
न बाध्यते नरो नित्यं वासुदेवमनुस्मरन् ॥ ४३ ॥

यममार्गं महाघोरं नरकाणि यमं तथा ।
स्वप्नेपि नैव पश्येत यः स्मरेद्गरुडध्वजम् ॥ ४४ ॥

हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः ।
पादोदकं च निर्माल्यं मस्तके यस्य सोच्युतः ॥ ४५ ॥

गोविन्दस्मरणं पुंसां पापराशिमहाचलम् ।
असंशयं दहत्याशु तूलराशिमिवानलः॥ ४६ ॥

अगस्त्यः —
स्मरणादेव कृष्णस्य पापसङ्घातपञ्जरः ।
शतधा भेदमायाति गिरिर्वज्रहतो यथा ॥ ४७ ॥

कृष्णे रताः कृष्णमनुस्मरन्ति तद्भावितास्तद्गतमानसाश्च ।
भिन्नेपि देहे प्रविशन्ति कृष्णं हविर्यथा मन्त्रहुतं हुताशे ॥ ४८ ॥

सा हानिस्तन्महच्छिद्रं सा चान्धजडमूकता ।
यन्मूहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥ ४९ ॥

नारायणो नाम नरो नराणां प्रसिद्धचोरः कथितः पृथिव्याम् ।
अनेकजन्मार्जितपापसञ्चयं हरत्यशेषं स्मृतमात्र एव ॥ ५० ॥

यस्य संस्मरणादेव वासुदेवस्य चक्रिणः ।
कोटिजन्मार्जितं पापं तत्क्षणादेव नश्यति ॥ ५१ ॥

किं तस्य बहुभिस्तीर्थैः किं तपोभिः किमध्वरैः ।
यो नित्यं ध्यायते देवं नारायणमनन्यधीः ॥ ५२ ॥

ये मानवा विगतरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति ।
ध्यानेन तेन हतकिल्बिषचेतनास्ते मातुः पयोधररसं न पुनः पिबन्ति ॥ ५३ ॥

हे चित्त चिन्तयस्वेह वासुदेवमहर्निशम् ।
नूनं यश्चिन्तितः पुंसां हन्ति संसारबन्धनम् ॥ ५४ ॥

आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ ५५ ॥ (Mahaabhaarata, Anushaasana Parva, Adhyaaya 186, Shloka 11; Nrsimha Puraana, Adhyaaya 64, Shloka 78; Garuda Puraana, Khanda 1, Adhyaaya 230, Shloka 1) (Also quoted by Shri Vedaanta Deshika, in Rahasyatraya Saara, Chapter 24)

स्मृते सकलकल्याणभाजनं यत्र जायते ।
पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् ॥ ५६ ॥

वेदेषु यज्ञेषु तपस्सु चैव दानेषु तीर्थेषु व्रतेषु यच्च ।
इष्टेषु पूर्तेषु च यत्प्रदिष्टं पुण्यं स्मृते तत्खलु वासुदेवे ॥ ५७ ॥

आराध्यैवं नरो विष्णुं मनसा यद्यदिच्छति ।
फलं प्राप्नोति विपुलं भूरि स्वल्पमथापि वा ॥ ५८ ॥

यन्नामकीर्तनं भक्त्या विलापनमनुत्तमम् ।
मैत्रेयाशेषपापानां धातूनामिव पावकः ॥ ५९ ॥

कलिकल्मषमत्युग्रं नरकार्तिप्रदं नृणाम् ।
प्रयाति विलयं सद्यः सकृत्सङ्कीर्तितेच्युते ॥ ६० ॥

अनायासेन चायान्ति मुक्तिं केशवसंश्रिताः ।
तद्विघाताय जायन्ते शक्राद्याः परिपन्थिनः ॥ ६१ ॥

चतुःसागरमासाद्य जम्बूद्वीपोत्तमे क्वचित् ।
न पुमान्केशवादन्यः सर्वपापचिकित्सकः ॥ ६२ ॥

यदभ्यर्च्य हरिं भक्त्या कृते वर्षसहस्रकम् ।
फलं प्राप्नोति विपुलं कलौ सङ्कीर्त्य केशवम् ॥ ६३ ॥

क्षीयते तु यदा धर्मः प्राप्ते घोरे कलौ युगे ।
तदा न कीर्तयेत्कश्चिन्मुक्तिदं देवमच्युतम् ॥ ६४ ॥

अवशेनापि यन्नामि्न कीर्तिते सर्वपातकैः ।
पुमान्विमुच्यते सद्यः सिंहत्रस्तमृगैरिव ॥ ६५ ॥ (Vishnu Puraana, Amsha 6, Adhyaaya 8, Shloka 19; also quoted by Shri Vedaanta Deshika, in Rahasyatraya Saara, Chapter 26)

नारायणेति मन्त्रोस्ति वागस्ति वशवर्तिनी ।
तथापि नरके घोरे पतन्तीत्येतदद्भुतम् ॥ ६६ ॥

आर्ता विषण्णाः शिथिलाश्च भीता घोरेषु च व्याधिषु वर्तमानाः ।
सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ ६७ ॥ (Appendix of the Vishnu Sahasranaama; also quoted by Shri Vedaanta Deshika, in Rahasyatraya Saara, Chapter 26)

कौशिकः —
अनाराधितगोविन्दा ये नरा दुःखभागिनः ।
आराध्य वासुदेवं स्युः सदानन्दैकभोगिनः ॥ ६८ ॥

सकृदुच्चरितं यैस्तु कृष्णेति न विशन्ति ते ।
गर्भागारगृहं मातुर्यमलोकं च दुस्सहम् ॥ ६९ ॥

क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् ।
क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥ ७० ॥

बुद्ध्या बुद्ध्वाभ्यसेदेतत् हरिरित्यक्षरद्वयम् ।
स्मरणात्कीर्तनाद्यस्य न पुनर्जायते भुवि ॥ ७१ ॥

हे जिह्वे मम निस्नेहे हरिं किं नानुभाषसे ।
हरिं वदस्व कल्याणि संसारोदधिनौर्हरिः ॥ ७२ ॥

असारे खलु संसारे सारात्सारतरो हरिः ।
पुण्यहीना न विन्दन्ति सारङ्गाश्च यथा जलम् ॥ ७३ ॥

कुरुक्षेत्रेण किं तस्य किं काश्या पुष्करेण किम् ।
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ॥ ७४ ॥

ब्रह्मा —
असारे खलु संसारे सारमेकं निरूपितम् ।
समस्तलोकनाथस्य सारमाराधनं हरेः ॥ ७५ ॥

सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पणम् ।
तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ ॥ ७६ ॥

यस्तु विष्णुपरो नित्यं दृढभक्तिर्जितेन्द्रियः ।
स्वगृहेपि वसन् याति तद्विष्णोः परमं पदम् ॥ ७७ ॥

शङ्करः साधु साधु महाभाग साधु दानवनाशन ।
यन्मां पृच्छसि धर्मज्ञ केशवाराधनं प्रति ॥ ७८ ॥

निमिषं निमिषार्धं वा मुहूर्तमपि भार्गव ।
नादग्धाशेषपापानां भक्तिर्भवति केशवे ॥ ७९ ॥

किं तेन मनसा कार्यं यन्न तिष्ठति केशवे ।
मनो मुक्तिफलावाप्तौ कारणं सुप्रयोजितम् ॥ ८० ॥

रोगो नाम न सा जिह्वा यया न स्तूयते हरिः ।
गर्तौ नाम न तौ कर्णौ याभ्यां तत्कर्म न श्रुतम् ॥ नूनं तत्कण्ठशालूकमथवाप्युपजिह्विका ।
रोगो नाम न सा जिह्वा या न वक्ति हरेर्गुणान् ॥ ८२ ॥

भारभूतैः करैः कार्यं किं तस्य नृपशोर्द्विजाः ।
यैर्हि न क्रियते विष्णोर्गृहसंमार्जनादिकम् ॥ ८३ ॥

चरणौ तौ तु सफलौ केशवालयगामिनौ ।
ते च नेत्रे महाभागे याभ्यां सन्दृश्यते हरिः॥ ८४ ॥

किं तस्य चरणैः कार्यं वृथासञ्चरणैर्द्विजाः ।
यैर्हि न व्रजते जन्तुः केशवालयदर्शने॥ ८५ ॥

वेदवेदान्तविदुषां मुनीनां भावितात्मनाम् ।
ऋषित्वमपि धर्मज्ञ विज्ञेयं तत्प्रसादजम्॥ ८६ ॥

विचित्ररत्नपर्यङ्के महाभोगे च भोगिनः ।
रमन्ते नाकिरामाभिः केशवस्मरणात् फलम्॥ ८७ ॥

अश्वमेधसहस्राणां यः सहस्रं समाचरेत् ।
नासौ तत्फलमाप्नोति तद्भक्तैर्यदवाप्यते ॥ ८८ ॥

रे रे मनुष्याः पुरुषोत्तमस्य करौ न कस्मान्मुकुलीकुरुध्वम् ।
क्रियाजुषां को भवतां प्रयासः फलं हि यत्तत्पदमच्युतस्य ॥ ८९ ॥

विष्णोर्विमानं यः कुर्यात्सकृद्भक्त्या प्रदक्षिणम् ।
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ॥ ९० ॥

प्रदक्षिणं तु यः कुर्याद्धरिं भक्तिसमन्वितः ।
हंसयुक्तविमानेन विष्णुलोकं स गच्छति ॥ ९१ ॥

तीर्थकोटिसहस्राणि व्रतकोटिशतानि च ।
नारायणप्रणामस्य कलां नार्हन्ति षोडशीम्॥ ९२ ॥

उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां जानुभ्यां प्रणामोष्टाङ्ग ईरितः ॥ ९३ ॥

शाठ्येनापि नमस्कारं कुर्वतः शांर्गपाणये ।
शतजन्मार्जितं पापं नश्यत्येव न संशयः ॥ ९४ ॥

संसारार्णवमग्नानां नराणां पापकर्मणाम् ।
नान्योद्धर्ता जगन्नाथं मुक्त्वा नारायणं प्रभुम् ॥ ९५ ॥

रेणुकुण्ठितगात्रस्य कणा यावन्ति भारत ।
तावद्वर्षसहस्राणि विष्णुलोके महीयते ॥ ९६ ॥

पावनं विष्णुनैवेद्यं सुभोज्यमृषिभिः स्मृतम् ।
अन्यदेवस्य नैवेद्यं भुक्त्वा चान्द्रायणं चरेत् ॥ ९७ ॥

कोट्यैन्दवसहस्रैस्तु मासोपोषणकोटिभिः ।
तत्फलं लभ्यते पुम्भिर्विष्णोर्नैवेद्यभक्षणात् ॥ ९८ ॥

त्रिरात्रफलदा नद्यो याः काश्चिदसमुद्रगाः ।
समुद्रगास्तु पक्षस्य मासस्य सरितां पतिः ॥ ९९ ॥

षण्मासफलदा गोदा वत्सरस्य तु जाह्नवी ।
विष्णुपादोदकस्यैताः कलां नार्हन्ति षोडशीम् ॥ १०० ॥

गङ्गाप्रयागगयपुष्करनैमिषाणि संसेवितानि बहुशः कुरुजाङ्गलानि ।
कालेन तीर्थसलिलानि पुनन्ति पापं पादोदकं भगवतः प्रपुनाति सद्यः ॥ १०१ ॥

यानि कानि च तीर्थानि ब्रह्माण्डान्तर्गतानि च ।
विष्णुपादोदकस्यैताः कलां नार्हन्ति षोडशीम् ॥ १०२ ॥

स्नात्वा पादोदकं विष्णोः पिबन् शिरसि धारयेत् ।
सर्वपापविनिर्मुक्तो वैष्णवीं सिदि्धमाप्नुयात् ॥ १०३ ॥

यथा पादोदकं पुण्यं निर्माल्यं चानुलेपनम् ।
नैवेद्यं धूपशेषश्च आरार्तिश्च तथा हरेः ॥ १०४ ॥

तुलस्यास्तु रजोजुष्टनैवेद्यस्य च भक्षणम् ।
निर्माल्यं शिरसा धार्यं महपातकनाशनम् ॥ १०५ ॥

भक्त्या वा यदि वाभक्त्या चक्राङ्कितशिलां प्रति ।
दर्शनं स्पर्शनं वापि सर्वपापप्रणाशनम् ॥ १०६ ॥

शालग्रामोद्भवो देवो देवो द्वारवतीभवः ।
उभयोः स्नानतोयेन ब्रह्महत्यां व्यपोहति ॥ १०७ ॥

शालग्रामशिला यत्र तत्र सन्निहितो हरिः ।
तत्र स्नानं च दानं च वाराणस्याः शताधिकम् ॥ १०७ ॥

म्लेच्छदेशेशुचौ वापि चक्राङ्को यत्र तिष्ठति ।
योजनानि तथा त्रीणि मम क्षेत्रं वसुन्धरे ॥ १०९ ॥

शालग्रामोद्भवो देवो शैलं चक्राङ्कमण्डलम् ।
यत्रापि नीयते तत्र वाराणस्याः शताधिकम् ॥ ११० ॥

शालग्रामोद्भवो देवो देवो द्वारवतीभवः ।
उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ॥ १११ ॥

हरिणा मुक्तिदानीह मुक्तिस्थानानि सर्वशः ।
स यस्य सर्वभावेषु तस्य तैः किं प्रयोजनम्॥ ११२ ॥

हरिर्याति हरिर्याति दस्युव्याजेन यो वदेत् ।
सोपि सद्गतिमाप्नोति गतिं सुकृतिनो यथा ॥ ११३ ॥

वासुदेवं परित्यज्य योन्यं देवमुपासते ।
त्यक्त्वामृतं स मूढात्मा भुङ्क्ते हालाहलं विषम् ॥ ११४ ॥

त्यक्त्वामृतं यथा कश्चिदन्यपानं पिबेन्नरः ।
तथा हरिं परित्यज्य योन्यं दैवमुपासते ॥ ११५ ॥

स्वधर्मं तु परित्यज्य परधर्मं चरेद्यथा ।
तथा हिरं परित्यज्य योन्यं दैवमुपासते ॥ ११६ ॥

गां च त्यक्त्वा स मूढात्मा गार्दभीं वन्दते यथा ।
तथा हरिं परित्यज्य चान्यं दैवमुपासते ॥ ११७ ॥

वासुदेवं परित्यज्य योन्यं दैवमुपासते ।
तृषितो जाह्नवीतीरे कूपं खनति दुर्मतिः ॥ ११८ ॥

यथा गङ्गोदकं त्यक्त्वा पिबेत् कूपोदकं नरः ।
तथा हरिं परित्यज्य योन्यं दैवमुपासते ॥ ११९ ॥

स्वमातरं परित्यज्य श्वपाकीं वन्दते यथा ।
तथा हरिं परित्यज्य योन्यं दैवमुपासते ॥ १२० ॥

यावत्स्वस्थमिदं पिण्डं नीरुजं करणान्वितम् ।
तावत्कुरुष्वात्महितं पश्चात्तापेन तप्यसे ॥ १२१ ॥

यावत्स्वास्त्थ्यं शरीरेषु करणेषु च पाटवम् ।
तावदर्चय गोविन्दमायुष्यं सार्थकं कुरु ॥ १२२ ॥

स्मर्यतां तु हृषीकेशो हृषीकेषु दृढेषु च ।
अदृढेषु हृषीकेषु हृषीकेशं स्मरन्ति के ॥ १२३ ॥

यावच्चिन्तयते जन्तुर्विषयान् विषसन्निभान् ।
तावच्चेत्स्मरते विष्णुं को न मुच्येत बन्धनात् ॥ १२४ ॥

यावत्प्रलपते जन्तुर्लोकवार्तादिभिः सदा ।
तावच्चेद्वदते विष्णुं को न मुच्येत बन्धनात् ॥ १२५ ॥

सूतः —
ज्ञात्वा विप्रैस्तिथिं सम्यग् दैवज्ञैः समुदीरिताम् ।
कर्तव्य उपवासस्तु ह्यन्यथा नरकं व्रजेत् ॥ १२६ ॥

क्षये वाप्यथवा वृद्धौ सम्प्राप्ते वा दिनक्षये ।
उपोष्या द्वादशी पुण्या पूर्वविद्धां परित्यजेत् ॥ १२७ ॥

पूर्वविद्धां प्रकुर्वाणो नरो धर्मान् निकृन्तति ।
सन्ततेस्तु विनाशाय सम्पदो हरणाय च ॥ १२८ ॥

कलावेधे तु विप्रेन्द्र दशम्यैकादशीं त्यजेत् ।
सुराया बिन्दुना स्पृष्टं गङ्गाम्भ इव सन्त्यजेत् ॥ १२९ ॥

श्वदृतौ पञ्चगव्यं च दशम्या दूषितां त्यजेत् ।
एकादशीं द्विजश्रेष्ठाः पक्षयोरुभयोरपि ॥ १३० ॥

तस्माद्विप्रा न विद्धा हि कर्तव्यैकादशी क्वचित् ।
विद्धा हन्ति पुरापुण्यं श्राद्धं च वृषलीपतिः ॥ १३१ ॥

जप्तं दत्तं हुतं स्नातं तथा पूजा कृता हरेः ।
तत्सर्वं विलयं याति तमः सूर्योदये यथा ॥ १३२ ॥

एकादश्यां यदा ब्रह्मन् दिनक्षयतिथिर्भवेत् ।
उपोष्या द्वादशी तत्र त्रयोदश्यां तु पारणम् ॥ १३३ ॥

प्रतिपत्प्रभृतयः सर्वा उदयादुदयाद्रवेः ।
सम्पूर्णा इति विज्ञेया हरिवासरवर्जिताः ॥ १३४ ॥

अरुणोदयकाले तु दशमी यदि दृश्यते ।
न तत्रैकादशी कार्या धर्मकामार्थनाशिनी ॥ १३५ ॥

अरुणोदयवेलायां दशमी यदि दृश्यते ।
पापमूलं तदा ज्ञेयमेकादश्युपवासनम्॥ १३६ ॥

चतस्रो घटिकाः प्रातररुणोदय उच्यते ।
यतीनां स्नानकालोयं गङ्गाम्भःसदृशं जलम् ॥ १३७ ॥

उदयात्प्राग्यदा विप्रा मुहूर्तद्वयसंयुता ।
सम्पूर्णैकादशी नाम तत्रैवोपवसेद्गृही ॥ १३८ ॥

उदयात्प्राक्त्रिघटिकाव्यापिन्यैकादशी यदा ।
सन्दिग्धैकादशी नाम वर्ज्या धर्मार्थकां*िक्ष*भिः ॥ १३९ ॥

पुत्रपौत्रविवद्ध्यर्थं द्वादश्यामुपवासयेत् ।
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् ॥ १४० ॥

उदयात्प्राग् द्विघटिकाव्यापिन्यैकादशी यदा ।
सङ्कीर्णैकादशी नाम वर्ज्या धर्मार्थकां*िक्ष*भिः ॥ १४१ ॥

पुत्रराज्यविवृद्ध्यर्थं द्वादश्यामुपवासनम् ।
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् ॥ १४२ ॥

दशमीशेषसंयुक्ता गान्धार्या समुपोषिता ।
तस्याः पुत्रशतं नष्टं तस्मात्तां परिवर्जयेत् ॥ १४३ ॥

अपीषद्दशमीविद्धा तदा तां परिवर्जयेत् ।
सुराबिन्दुसमायुक्तां प्रवदन्ति मनीषिणः ॥ १४४ ॥

बह्वागमविरोधेषु ब्राह्मणेषु विवादिषु ।
उपोष्या द्वादशी तत्र त्रयोदश्यां तु पारणम् ॥ १४५ ॥

एकादश्यां तु विद्धायां सम्प्राप्ते श्रवणे तथा ।
उपोष्या द्वादशी पुण्या पक्षयोरुभयोरपि ॥ १४६ ॥

उपरागसहस्राणि व्यतीपातायुतानि च ।
अमालक्षं तु द्वादश्याः कलां नार्हन्ति षोडशीम् ॥ १४७ ॥

शुद्धापि द्वादशी ग्राह्या परतो द्वादशी यदि ।
विषं तु दशमी ज्ञेयामृतं चैकादशी तिथिः ।
विषप्रधाना वर्ज्या सामृता ग्राह्या प्रयत्नतः ॥ १४८ ॥

द्वादश्यां भोजनं चैव विद्धायां हर्युपोषणम् ।
यः कुर्यान्मन्दबुदि्धत्वान्निरयं सोधिगच्छति ॥ १४९ ॥

यानि कानि च वाक्यानि विद्धोपोषपराणि च ।
धनदार्चापराणि स्युर्वैष्णवी न दशायुता ॥ १५० ॥

अथवा मोहनार्थाय मोहिन्या भगवान् हरिः ।
अर्थितः कारयामास व्यासरूपी जनार्दनः ॥ १५१ ॥

धनदार्चाविवृध्द्यर्थं महावित्तलयस्य च ।
असुराणां मोहनार्थं पाषण्डानां विवृद्धये ।
आत्मस्वरूपाविज्ञप्त्यै स्वलोकाप्राप्तये तथा ॥ १५२ ॥

एवं विद्धां परित्यज्य द्वादश्यामुपवासयेत् ।
कोटिजन्मार्जितं पापमेकयैव विनश्यति ॥ १५३ ॥

ततः कोटिगुणं चापि निषिद्धस्येतरैर्जनैः ।
यदनादिकृतं पापं यदूर्ध्वं यत्करिष्यति ॥ १५४ ॥

तत्सर्वं विलयं याति परेषामुपवासनात् ।
न च तस्मात्प्रियतमः केशवस्य ममापि च ॥ १५५ ॥

एकादश्यां ह्यवेधे तु द्वादशीं न परित्यजेत् ।
पारणे मरणे चैव तिथिस्तात्कालिकी स्मृता ॥ १५६ ॥

ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तथा ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो भर्तृमती तथा ॥ १५७ ॥

अभर्तृका तथान्ये च सूतवैदेहिकादयः ।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ॥ १५८ ॥

एकादश्यां तु यो भुङ्क्ते मोहेनावृतचेतसा ।
शुक्लायामथ कृष्णायां निरयं याति स ध्रुवम् ॥ १५९ ॥

विवेचयति यो मोहाच्छुक्ला कृष्णेति पापकृत् ।
एकादशीं स वै याति निरयं नात्र संशयः ॥ १६० ॥

यथा गौर्नैव हन्तव्या शुक्ला कृष्णेति भामिनि ।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ॥ १६१ ॥

यानि कानि च वाक्यानि कृष्णैकादशिवर्जने ।
भरण्यादिनिषेधे च तानि काम्यफलार्थिनाम् ॥ १६२ ॥

कामिनोपि हि सिद्ध्यर्थं कुर्युरेवोपवासनम् ।
प्रीणनाय हरेर्नित्यं न तु काम्यव्यपेक्षया ॥ १६३ ॥

तस्माच्छुक्लामथो कृष्णां भरण्यादियुतामपि ।
प्रत्यवायनिषेधार्थमुपवासीत नित्यशः ।
प्रीणनार्थं हरेश्चापि विष्णुलोकस्य चाप्तये ॥ १६४ ॥

कला वार्धकला वापि परतो द्वादशी यदि ।
द्वादश द्वादशीर्हन्ति पूर्वेद्युः पारणे कृते ॥ १६५ ॥

अतिरिक्ता द्वादशी चेद्यस्तां नोपोषयेद्यदि ।
द्वादश द्वादशीर्हन्ति द्वादशी चातिलङ्घिता ॥ १६६ ॥

द्वादश्यामतिरिक्तायां यो भुङ्क्ते पूर्ववासरे ।
द्वादश द्वादशीर्हन्ति द्वादशीं न परित्यजेत् ॥ १६७ ॥

द्वादशीं श्रवणोपेतां यो नोपोष्यात् सुमन्दधीः ।
पञ्चसंवत्सरकृतं पुण्यं तस्य विनश्यति ॥ १६८ ॥

एकादशीमुपोष्याथ द्वादशीमप्युपोषयेत् ।
न तत्र विधिलोपः स्यादुभयोर्देवता हरिः ॥ १६९ ॥

अल्पायामपि विप्रेन्द्र पारणं तु कथं भवेत् ।
पारयित्वोदकेनापि भुञ्जानो नैव दुष्यति ॥ १७० ॥

यदाल्पां द्वादशीं दृष्ट्वा निशीथादूर्ध्वमेव तु ।
आमध्याह्नाः क्रियाः सर्वाः कर्तव्याः शम्भुशासनात् ॥१७१ ॥

व्यासः उषसि द्वे तु कर्तव्ये प्रातर्माध्याह्निकक्रिये ।
भुजेर्यदापकर्षस्य तदन्तर्न्यायतो भवेत्॥ १७२ ॥

कर्तुं साध्यं यदा नालं द्वादश्यदि्भस्तु पारयेत् ।
क्रतावल्पाशिवत् पश्चात् भुञ्जीतेत्यपरे जगुः ॥ १७३ ॥

अशितानशिता यस्मादापो विद्वदि्भरीरिताः ।
अम्भसा केवलेनैव करिष्ये व्रतपारणम् ॥ १७४ ॥

न काशी न गया गङ्गा न रेवा न च पुष्करम् ।
न चापि कौरवं क्षेत्रं तुल्यं भूप हरेर्दिनात् ॥ १७५ ॥

अश्वमेधसहस्राणि वाजपेयायुतानि च ।
एकादश्युपवासस्य कलां नार्हन्ति षोडशीम् ॥ १७६ ॥

एकादशीसमुत्थेन वह्निना पातकेन्धनम् ।
भस्मीभवति राजेन्द्र अपि जन्मशतोद्भवम् ॥ १७७ ॥

नेदृशं पावनं किञ्चिन्नराणां भुवि विद्यते ।
यादृशं पद्मनाभस्य दिनं पातकहानिदम् ॥ १७८ ॥

तावत्पापानि देहेस्मिन् तिष्ठन्ति मनुजाधिप ।
यावन्नोपोषयेज्जन्तुः पद्मनाभदिनं शुभम् ॥ १७९ ॥

एकादशेन्द्रियैः पापं यत्कृतं भवति प्रभो ।
एकादश्युपावासेन तत्सर्वं विलयं व्रजेत् ॥ १८० ॥

एकादशीसमं किञ्चित् पवित्रं न हि विद्यते ।
व्याजेनापि कृता राजन्न दर्शयति भास्करिम् ॥ १८१ ॥

श्रीव्यासः अन्नं निवेदयेन्मह्यं प्राप्तं मद्वासरे शुभे ।
तस्यापि नरकप्राप्तिः किं पुनर्भोजने कृते ॥ १८२ ॥

स ब्रह्महा स गोघ्नश्च स स्तेनो गुरुतल्पगः ।
एकादश्यां तु भुञ्जानः पक्षयोरुभयोरपि ॥ १८३ ॥

वरं स्वमातृगमनं वरं गोमांसभक्षणम् ।
वरं हत्या सुरापानमेकाश्यन्नभक्षणात् ॥ १८४ ॥

एकादशीदिने पुण्ये भुञ्जते ये नराधमाः ।
अवलोक्य मुखं तेषामादित्यमवलोकयेत् ॥ १८५ ॥

पृथिव्यां यानि पापानि ब्रह्महत्यादिकानि च ।
अन्नमाश्रित्य तिष्ठन्ति सम्प्राप्ते हरिवासरे ॥ १८६ ॥

रुग्माङ्गदः —
अष्टवर्षाधिको यस्तु ह्यशीतिर्न हि पूर्यते ।
यो भुङ्क्ते मानवः पापी विष्णोरहनि चागते ॥ १८७ ॥

पिता वा यदि वा पुत्रो भार्या वापि सुहृज्जनः ।
पद्मनाभदिने भुङ्क्ते निग्राह्यो दस्युवद्भवेत् ॥ १८८ ॥

ब्रह्मा उपोष्य द्वादशीं पुण्यां सर्वपापक्षयप्रदाम् ।
न पश्यन्ति यमं वापि नरकाणि न यातनाम् ॥ १८९ ॥

शङ्करः रटन्तीह पुराणानि भूयो भूयो वरानने ।
न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरिवासरे ॥ १९० ॥

द्वादशी न प्रमोक्तव्या यावदायुः प्रवर्तते ।
अर्चनीयो हृषीकेशो विशुद्धेनान्तरात्मना॥ १९१ ॥

भक्त्या ग्राह्यो हृषीकेशो न धनैर्धरणीसुराः ।
भक्त्या सम्पूजितो विष्णुः फलं धत्ते समीहितम् ॥ १९२ ॥

जलेनापि जगन्नाथः पूजितः क्लेशनाशनः ।
परितोषं प्रयात्याशु तृषार्तास्तु यथा जलैः॥ १९३ ॥

आसीनस्य शयानस्य तिष्ठतो ब्रजतोपि वा ।
रमस्व पुण्डरीकाक्ष हृदये मम सर्वदा ॥ १९४ ॥

सर्वगश्चैव सर्वात्मा सर्वावस्थासु चाच्युत ।
रमस्व पुण्डरीकाक्ष नृसिंह हृदये मम ॥ १९५ ॥

करावलम्बनं देहि श्रीकृष्ण कमलेक्षण ।
भवपङ्कार्णवे घोरे मज्जतो मम शाश्वत (सर्वदा) ॥ १९६ ॥

त्राहि त्राहि जगन्नाथ वासुदेवाच्युताव्यय ।
मां समुद्धर गोविन्द दुःखसंसारसागरात् ॥ १९७ ॥

एतत्पुण्यं परं गुह्यं पवित्रं पापनाशनम् ।
आयुष्यं च यशस्यं च धन्यं दुःस्वप्ननाशनम् ॥ १९८ ॥

कलौ पापं कियन्मात्रं हत्यास्तेयादिसम्भवम् ।
स्मृते मनसि गोविन्दे दह्यते तूलराशिवत् ॥ १९९ ॥

कलौ केशवभक्तानां न भयं विद्यते क्वचित् ।
स्मृते सङ्कीर्तिते ध्याते सङ्क्षयं याति पातकम् ॥ २०० ॥

अध्येतव्यमिदं शास्त्रं श्रोतव्यमनसूयया ।
भक्तेभ्यश्च प्रदातव्यं धार्मिकेभ्यः पुनःपुनः ॥ २०१ ॥

अधीयाना इदं शास्त्रं विष्णोर्माहात्म्यमुत्तमम् ।
सर्वपापविनिर्मुक्ताः प्राप्नुवन्ति परं पदम् ॥ २०२ ॥

श्रुत्वा धर्मं विजानाति श्रुत्वा त्यजति दुर्मतिम् ।
श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षं च गच्छति ॥ २०३ ॥

तस्मादिदं सदा सेव्यं श्रोतव्यं च सदैव हि ।
कुतर्कदावदग्धेभ्यो न दातव्यं कथञ्चन ॥ २०४ ॥

संसारविषपानेन ये मृताः प्राणिनो भुवि ।
अमृताय स्मृतस्तेषां कृष्णामृतमहार्णवः ॥ २०५ ॥

क्लिन्नं पादोदकेनैव यस्य नित्यं कलेवरम् ।
तीर्थकोटिसहस्रैस्तु स्नातो भवति प्रत्यहम् ॥ २०६ ॥

तीर्थकोटिसहस्रैस्तु सेवितैः किं प्रयोजनम् ।
तोयं यदि पिबेन्नित्यं शालग्रामशिलाच्युतम् ॥ २०७ ॥

शालग्रामशिलास्पर्शं ये कुर्वन्ति दिनेदिने ।
वाञ्छन्ति करसंस्पर्शं तेषां देवाः सवासवाः ॥ २०८ ॥

दुःसहो नारको वह्निर्दुःसहा यमकिङ्कराः ।
विषमश्चान्तकपथः प्रेतत्वं चातिदारुणम् ॥ २०९ ॥

सञ्चित्य मनसाप्येवं पातकाद्विनिवर्तयेत् ।
स्मरणं कीर्तनं विष्णोः सदैव न परित्यजेत् ॥ २१० ॥

अच्युतानन्तगोविन्दनामोच्चारणभेषजात् ।
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥ २११ ॥

सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।
वेदशास्त्रात्परं नास्ति न दैवं केशवात् परम् ॥ २१२ ॥

सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् ।
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ २१३ ॥

एवं ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।
कीर्तयन्ति सुरश्रेष्ठं देवं नारायणं प्रभुम् ॥ २१४ ॥

किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ।
यो नित्यं ध्यायते देवं नारायणमनन्यधीः ॥ २१५ ॥

नित्योत्सवो भवत्तेषां नित्यश्रीर्नित्यमङ्गलम् ।
येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः ॥ २१६ ॥

जीवंश्चतुर्दशादूर्ध्वं पुरुषो नियमेन तु ।
स्त्री वाप्यनूनदशकं देहं मानुषमार्जयेत् ॥ २१७ ॥

चतुर्दशोर्ध्वजीवीनि संसारश्चादिवर्जितः ।
अतोवित्वा परं देवं मोक्षाशा का महामुने ॥ २१८ ॥

आचतुदर्शमाद्वर्षात् कर्माणि नियमेन तु ।
दशावराणां देहानां कारणानि करोत्ययम् ।
अतः कर्मक्षयान्मुक्तिः कुत एव भविष्यति ॥ २१९ ॥

समानां विषमा पूजा विषमाणां समा तथा ।
क्रियते येन देवोपि स्वपदाद्भ्रश्यते हि सः ॥ २२० ॥

(इति पाद्मे) वित्तं बन्धुर्वयः कर्म विद्या चैव तु पञ्चमी ।
एतानि मान्यस्थानानि गरीयो ह्युत्तरोत्तरम् ॥ २२१ ॥

गुणानुसारिणीं पूजां समां दृष्टिं च यो नरः ।
सर्वभूतेषु कुरुते तस्य विष्णुः प्रसीदति ॥ २२२ ॥

यथा सुहृत्सु कर्तव्यं पितृमातृसुतेषु च ।
तथा करोति पूजादि समबुदि्धः स उच्यते ॥ २२३ ॥

तिर्यक्पुण्ड्रं न कुर्वीत सम्प्राप्ते मरणेपि वा ।
न चान्यन्नाम विब्रूयात् परान्नारायणादृते ॥ २२४ ॥

नैवेद्यशेषं देवस्य यो भुनक्ति दिने दिने ।
सिक्थे सिक्थे भवेत्पुण्यं चान्द्रायणशताधिकम् ॥ २२५ ॥

ऊर्ध्वपुण्ड्रमृजुं सौम्यं ललाटे यस्य दृश्यते ।
स चण्डालोपि शुद्धात्मा पूज्य एव न संशयः ॥ २२६ ॥

अशुचिर्वाप्यनाचारो मनसा पापमाचरन् ।
शुचिरेव भवेन्नित्यमूर्ध्वपुण्ड्राङ्कितो नरः ॥ २२७ ॥

ऊर्ध्वपुण्ड्रविहीनस्य श्मशानसदृशं मुखम् ।
अवलोक्य मुखं तेषामादित्यमवलोकयेत् ॥ २२८ ॥

यज्ञो दानं तपश्चैव स्वाध्यायः पितृतर्पणम् ।
व्यर्थं भवति तत्सर्वमूर्ध्वपुण्ड्रं विना कृतम् ॥ २२९ ॥

गोपीचन्दनलिप्ताङ्गो यं यं पश्यति चक्षुषा ।
तं तं शुद्धं विजानीयान्नात्र कार्या विचारणा ॥ २३० ॥

आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः ।
वैष्णवोस्मत्कुले जातः स नः सन्तारयिष्यति॥ २३१ ॥

जीवितं विष्णुभक्तस्य वरं पञ्चदिनान्यपि ।
न तु कल्पसहस्रैस्तु भक्तिहीनस्य केशवे ॥ २३२ ॥

किं तेन जातमात्रेण भूभारेणान्नशत्रुणा ।
यो जातो नार्चयेद्विष्णुं न स्मरेन्नापि कीर्तयेत् ॥ २३३ ॥

यो ददाति द्विजातिभ्यश्चन्दनं गोपिमर्दितम् ।
अपि सर्षपमात्रेण पुनात्यासप्तमं कुलम् ॥ २३४ ॥

ज्ञानी च कर्माणि सदोदितानि कुर्यादकामः सततं भवेत ॥ २३५ ॥

अतीतानागतज्ञानी त्रैलोक्योद्धरणक्षमः ।
एतादृशोपि नाचारं श्रौतं स्मार्तं परित्यजेत् ॥ २३६ ॥

यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति ॥ २३७ ॥

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।
एवं त्वयि नान्यथेतोस्ति न कर्म लिप्यते नरे ॥ २३८ ॥

आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ।
वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः ॥ २३९ ॥

निष्कामं ज्ञानपूर्वं तु निवृत्तमिह चोच्यते ।
निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम् ॥ २४० ॥

श्रीमदानन्दतीर्थार्यसहस्रकिरणोत्थिता ।
गोततिः सततं सेव्या गीर्वाणैः सिदि्धदा भवेत् ॥ २४१ ॥

यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलंब तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुर्मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥ २४२ ॥

यः सर्वगुणसम्पूर्णः सर्वदोषविवर्जितः ।
प्रीयतां प्रीत एवालं विष्णुर्मे परमः सुहृत् ॥ २४३ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः श्रीकृष्णामृतमहार्णवः समाप्तः ॥