Shaiva Sarvasva Khandanam of Shri Vijayeendra Teertharu
Nyaayamauktikamaala is an account of a debate between Svaami Vijayeendra Teertha Shripaadagalu and Shri Lingaraajendra, which was won by the former. This is a portion of Nyaayamauktikamaala which debunks 11 popular Shaiva arguments that are used to prove Shri Shiva’s superiority over Shri Vishnu.
॥ शैवसर्वस्वखण्डनम् ॥ (न्यायमौक्तिकमालायाम्)
जगद्गुरु-सर्वतन्त्रस्वतन्त्र श्रीमद्विजयीन्द्रतीर्थश्रीपादविरचितम्
परस्परं विवदमानयोर्ब्रह्मनारायणयोर्मध्ये महालिङ्गकारेण प्रादुर्भूतेन परमशिवेन तद्बलपरीक्षार्थ तल्लिङ्गमूलाग्रदर्शनाय प्रेरितयोर्वराह हंसरूपेण तदर्थं प्रवृत्तयोस्तद्दर्शनाऽलाभेन तदपेक्षया शिव एवोत्कृष्ट इत्यस्य ॥ १ ॥
विष्णुर्जलन्धरवधार्थं सुदर्शनमाकांक्षमाणः प्रतिदिनं पङ्कजानां सहस्रेण शिवमाराधयिता तत्परीक्षार्थं कदाचिदेकपङ्कजे गोपायिते ततः स्वोद्धृतेन स्वनेत्रकमलेन शिवाराधने ओरवृत्तः ततः शिवप्रसादात्सुदर्षनं पुण्डरीकाक्षत्वं च प्राप्य तेन सुदर्षनेन जलन्धरमजयदित्यस्य ॥ २ ॥
अमृतमथनकाले कालकूटविषोद्भवे तन्नियमनाशक्ततया विष्ण्वादिपु पलायनपरेषु सर्वलोकरक्षार्थं शिवस्ताद्दशविषं पीतवानित्यस्य ॥ ३ ॥
विष्ण्वादीनि युद्वसाधनानि कृत्वा शिवस्तदसाध्यत्रिपुराण्यजयदित्यस्य ॥ ४ ॥
दक्षाध्वरभङ्गे हरिणरूपेण द्रुततरं भीत्या गच्छतो विष्णोः शिवावतारभूतवीरभद्रेण पराजय इत्यस्य ॥ ५ ॥
'सत्यं सत्यं पुनस्सत्यं उद्धृत्य भुजमुच्यते । वेदशास्त्रात्परं नास्ति न दैवं केशवात्परम्' इति सर्वऋषिसभामध्ये वदतो वेदव्यासस्य भुजः स्तव्धोऽभूदित्यस्य ॥ ६ ॥
दारुकावनादौ विष्णुशिवयोस्स्त्रीपुरुषरूपेण सञ्चार इत्यस्य ॥ ७ ॥
हिरण्यासुरवधार्थे (हिरण्यकशिपु) प्रवृत्तं नृसिंहं रुद्रः शरभरूपेणावधीतित्यस्य ॥ ८ ॥
रानचन्द्रेण रावणवधजनितब्रह्महत्यापनुत्तये सेतो लिङ्गप्रतिष्ठातत्पूजादिकं कृतमित्यस्य ॥ ९ ॥
कृष्णस्य शिववरप्रदानेन पुत्रप्राप्तिर्जातेत्यादेश्च ॥ १० ॥
तत्र तत्र पुरानादिषु प्रतिपादनेन शिवस्यैव विष्ण्वपेक्षयोत्कृष्टत्वेन परब्रह्मत्वं परमकारणत्वं चोचितम् । मोक्षप्रदस्य काशीक्षेत्रस्य शिवक्षेत्रत्वादिप्रसिद्धेः शिवस्यैव मोक्षप्रदातृत्वेन मुमुक्षुपास्यत्वं चेति ॥ ११ ॥
तदसत् । उत्कृष्टस्य (हरिसर्वोत्तमत्वादिरूपस्य) सर्वस्याप्यर्थस्य सात्विकपुराणेषु प्रतिपादनेन तदन्येषुक्तविरुद्धार्थप्रतिपादनेन परीक्षकानादरणीयत्वात् । किञ्च विष्णुचतुर्मुखयोर्वराहहंसरूपयोः शिवलिङ्गमूलाग्रादर्शनं कौर्मलैङ्गशिवरात्रिमाहात्म्यादिषु प्रतिपाद्यते । तेषां तामसपुराणत्वं प्रसिद्धमेव । किञ्च 'उद्धृतासि वराहेण कृष्णेन शतबाहुना' (Maha-Naaraayana Upanishad, Anuvaaka 1, Mantra 38; also in the Sudarshana Upanishad) । ‘आपो वा इदमग्रे सलिलमासीत् तस्मिन्प्रजापतिर्वायुर्भूत्वाचरत्स इमां अपश्यत् । तां वराहो भूत्वाऽहरत्' (Taittireeya Samhita, Kaanda 7, Prapaathaka 1, Anuvaaka 5, Mantra 1) इत्यादिश्रुतिविरोधः । तत्र सकलभूतभौतिकाद्याश्रयपृथिव्या उद्धरणं विष्णुना कृतमित्यावेदनात् । तादृशलिङ्गस्यापि पार्थिवत्वात् । तस्या पृथिवीत्वेऽप्राकृतत्वे ऊर्ध्वाधोगेशावच्छेदेनापरिच्छिन्नत्वे च प्रमाणाभावात् । न च विष्णोर्लिङ्गमूलापरिज्ञानेनैव तत्कल्पनमिति वाच्यम् । विष्णोस्सर्वज्ञत्वप्रतिपादकश्रुतेः विरोधात् । 'विचित्रशक्तिः पुरुषः पुराणो न चान्येषां शक्तयस्ताद्दशास्स्युः' इत्यादिविष्णुविचित्रशक्त्याद्यावेदकश्रुतिविरोधात् ॥ १ ॥
विष्णोः शिवप्रसादेन जलन्धरवधार्थम् सुदार्शनप्राप्त्यादिकमसंगतम् 'चरणं पवित्रम्' (Taittireeya Aaranyaka, Prapaathaka 10, Maha-Naaraayana Upanishad, Anuvaaka 1, Mantra 50) इत्यादि श्रुतिविरुद्धम् । असङ्गतं पुण्डरीकाक्षत्वप्राप्त्यादिकमपि । 'तस्य यथा कप्यासं पुण्डरीकमेवाक्षिणी तस्योदिति नाम स एव सर्वेभ्यः पाप्मभ्य उदितः' (Chhaandogya Upanishad, Prapaathaka 1, Khanda 6, Mantra 7) इत्यादि श्रुतिविरिद्धम् । तत्र भगवद्विग्रहमात्रस्याप्राकृतत्वेनानाद्यनन्तत्वसमर्थनात् । यद्यपि लिङ्गपुराणादिष्विव वराहपुराणपूर्वखण्डेऽपि विष्णोर्जलन्धरवधार्थं शिवपूजासुदर्शनपुण्डरीकाक्षत्वप्राप्त्यदिकमावेद्यते । तथापि पाद्मादिषु सात्विकराजसतामसत्वादिवत् वाराहेऽपि पूर्वखण्डस्य तामसत्वोपगमान्न दोषः ॥ २ ॥
अमृतमथनकाले कालकूटविषपानमपि शिवेन न स्वशक्तिमात्रकृतम् । किन्तु विष्णुतन्मन्त्रजपमहिम्नैव । न चात्र प्रमाणाभावः । 'तं द्दष्ट्वा घोरसङ्कशं प्रादुर्भूतं महाविषम् । ध्यात्वा नारायणं देवं हृदये गरुडध्वजम् ॥' (Padma Puraana, Uttara Khanda, Adhyaaya 232, Shlokas 14-15) इति ब्रह्माण्डपुराणवचनस्य सत्वात् । 'येन जीर्णं च गरळं कण्ठस्थं च कपालिनः । अन्तरात्मधृतं तस्य हृदये गरुडध्वजम्' इति पुराणान्तरवचनस्य सत्वात् । 'अप्रकाशमिदं देवी गुह्याद्गुह्यतरं पदम् । पुराहमब्धिमथने पतगेन्द्रविषावहम् अवध्यं गरलं धोरमभुञ्जममृतं यथा ॥' इति गारुडपुराणे पार्वतींपति शिववचनाच्च । 'अच्युतानन्तगोविन्दमन्त्रतोऽप्सु शुभं परम् । ॐ नमस्सम्पुटीकृत्य जपन्विषधरोऽहरत्' (similar to Padma Puraana, Uttara Khanda, Adhyaaya 232, Shlokas 19-20) इति मन्त्रशास्त्रेषु प्रतिपादनाच्च । 'नामत्रयप्रभावाच्च विष्णोस्सर्वगतस्य वै । विषं तदभवज्जीर्णं लोकसंहारकारणम्' (Padma Puraana, Uttara Khanda, Adhyaaya 232, Shloka 18) इति पुराणान्तरवचनदर्शनाच्च । किं बहुना? 'वायुरस्मा उपामन्थत्पिनष्टिस्माकुवनन्नमा । केशी विषस्य पात्रेण यद्रुद्रेणापिबत्सह' इति (Rgveda, Shaakhala Samhita, Mandala 10, Sukta 136, Mantra 7) श्रुत्यावायोरेव विषपानकर्तृत्वस्य शिवस्य शिष्टकिञ्चिद्विषपानकर्तृत्वस्यावेदनाच्च । किञ्च भागवतादिषु अमृतमथनप्रकरणेषु विष्णोः कालकूटविषभीत्या पलायनाद्यनुक्तेश्च ॥ ३ ॥
त्रिपुरविजयोऽपि न रुद्रोत्कर्षग्रतिपादकः । यद्यपि 'तेषामसुराणां तिस्रःपुर आसन् क इमामशिष्यतीति रुद्र इत्यब्रुवन्' (Taittireeya Samhita, Kaanda 6, Prapaathaka 2, Anuvaaka 3, Mantra 1) इत्यादिश्रुतिष्वेव शिवस्यैव त्रिपुरविजयः विष्ण्वादीनां तेजनादियुद्धसाधनतया तदुपसर्जनत्वं श्रूयते । तथापि विष्णवादीनां शिवोपसर्जनत्वं न स्वाभाविकं किन्तु 'अहं वृणे अहमेव पशूनामधिपतिरसानि' (Shukla-Yajurveda, Kaanva Samhita, Adhyaaya 24) इति श्रुत्या शिववरप्रदानलब्धम् । न चात्र प्रमाणाभावः । 'ततो मां शरणं गत्वा प्रपेदे निर्भयो भवान् । अहं देवशुको भूत्वा त्रिपुरस्थानघातयम्' इत्युत्तरत्र कूर्मपुराणे शिवं प्रति विष्णुवचनात् । महाभारते कर्णपर्वणि 'विष्णुरात्मा भगवतो रुद्रस्यामिततेजसः । तस्माद्धनुर्जसंस्पर्शं स विषेहे महेश्वरः' (Mahaabhaarata, Karna Parva, Adhyaaya 26, Shlokas 33-34) इति नारायणस्यैव विशिष्य रुद्रान्तर्योमित्वप्रतिपादनात् । 'अद्वितीयं यथामन्त्रं तारकं ब्रह्मनामकम् । जपित्वा सिद्धिमाप्नोति सत्यं सत्यं वदाम्यहम् ॥ इममेव जपन्मन्त्रं त्र्यम्बकस्त्रिपुरान्तकः' इति स्मृतिवचनाच्च । 'त्रिपुरं(नाशकः) जग्मुकः पूर्वं ब्रह्मणा विष्णुपञ्जरं । शङ्करस्य कुरुश्रेष्ठ रक्षणाय निरुपितम्' इति मोक्षधर्मवचनाच्च । किञ्च भागवतादिषु वृषभावतारसिद्धरसास्वादनादिना बहुधा त्रिपुरसंहारोपायकारकत्वावेदनाच्च ॥ ४ ॥
किञ्च दक्षाध्वरभङ्गे हरिणरूपेण द्रुततरं भीत्या गच्छतो विष्णोः शिवावतारभूतवीरभद्रेण पराजय इत्यनुपपन्नम् । दक्षाध्वरे नारायणागमनस्यैवाभावात् । 'उपलभ्य पुरैवैतौ भगवानब्जसम्भवः । नारायणश्च विश्वात्मा न तमध्वरमीयतुः' (Bhaagavata Puraana, Skandha 4, Adhyaaya 6, Shloka 3) इति दक्षाध्वरे विष्णुचतुर्मुखयोरनागमनप्रतिपादनात् । तामसपुराणे क्वचिदागमनप्रतिपादनेऽपि तस्य भागवतविरुद्धतया अनादरणीयत्वाच्चेति ॥ ५ ॥
'सत्यं सत्यं पुनस्सत्यं भुजमुद्धृत्य चोच्यते । वेदशास्त्रात्परं नास्ति न दैवं केशवात्परम्' (Skanda Puraana, Kaashi Khanda, Uttaraardha, Adhyaaya 45, Shloka 13) इति सर्वऋषिसभामध्ये वदतः व्यासस्य भुजस्स्तब्धोऽभुदित्येतत् स्कान्दपुराणे काशीखण्डे प्रतिपादितम् । तस्य स्कान्दस्य तामसपुराणत्वेन विशिप्यावैदिकत्वज्ञानात् । 'अवैदिकत्रयं ज्ञानं वासिष्ठं सूतसंहिता । काशीखण्डं परित्याज्यं वैदिकस्य विरोधतः' इत्यादिना प्रायेण काशीखण्डस्यावैदिकत्वावेदनेन च उपेक्षणीयत्वम् । किञ्च 'सहोवाच व्यासः पाराशर्यः' (Taittireeya Aaranyaka, Prapaathaka 1, Anuvaaka 9, Mantra 6) इत्यादिश्रुत्या व्यासवचनानां प्रामाण्यावेदनात् । तत्र नारायणस्य सर्वस्मात्परत्वग्रतिपादकवचनानां श्रुतिमूलकत्वेन तदप्रामाण्यप्रतिपादककाशीखण्डवचनानां श्रुतिविरुद्धत्वेन अप्रमाणत्वाच्चेति ॥ ६ ॥
किञ्च अमृतविभागकाले देवसंरक्षणार्थं असुरव्यामोहनार्थं च पुरुषोत्तमेन मोहिनीवेषः परिगृहीतः । तदनन्तरं मोहिनीवेषमाश्चर्यभूतं रुद्रः ममापि प्रदर्शयेति विष्णुं प्रतिप्रार्थितवान् । अनन्तरं विष्णुना प्रदर्शिते तद्रूपे रुद्रः समीपस्थां पार्वतीं त्यक्त्वा मुग्धस्सन् विगलितरेतः प्रवाहैर्गमनपथमार्द्रीकुर्वन् तामेवाभिससारेति पुराणेप्वावेद्यते । तावता पुरुषोत्तमस्य न निकर्षः । तद्रूपदर्शनेन तस्य मोहोक्तेः । असुरव्यामोहनार्थं देवसंरक्षणार्थं च पुरुषोत्तमस्यापि मोहकस्त्रीवेषपरिग्रहसंभवात् मत्स्यकूर्मवराहादिरूपपरिग्रहदर्शनाच्चेति ॥ ७ ॥
किञ्च नृसिंहं रुद्रः शरभो भूत्वावधीदित्येतदपि विचारयामः तत्र 'हिरण्यासुररक्तपानेन उन्मत्तेन नृसिंहेन लोकेषु उपद्रुतेषु सत्सु देवाः तन्नियमनाय शिवं प्रार्थयामासुः । ततः शिवप्रेरितो वीरभद्रश्शरभो भूत्वा नृसिंहपादौ गृहीत्वा भ्रामयामास । ततो नृसिंहस्ताद्रक्तनिर्गमनेन प्रकृतिवशमापन्नः वीरभद्रं तुष्टाव । वीरभद्रोऽपि कदाप्येवंविधं कृत्यं मा कुर्विति विष्णुं नियम्य शिवान्तिकं प्राप' इति स्कान्दपुराणे प्रतिपादितम् । शैवपुराणे तु 'रुद्र एव शरभो भूत्वा नृसिंहं जघान' इति प्रतिपादितम् । अत्र विरोधस्स्फुटतरः स्कान्दशैवपुराणयोस्तामसत्वं च प्रसिद्धम् । किञ्च हिरण्यासुररक्तपानेन नृसिंहस्य मोहप्रतिपादनमप्यसङ्गतम् । 'सर्वभूतस्थमेकं नारायणं कारणरूपं.. शोकमोहविनिर्मुक्तं विष्णुं ध्यायन् । श्रीर्दधति' (Aatmabodha Upanishad) इति विष्णोर्मोहात्यन्ताभावस्यैवावेदनाच्च । किञ्च सर्वेऽपि लोकाः नृसिंहेनोपद्रुता इत्येतदप्यसङ्गतम् । 'परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे' (Bhagavad Geeta, Adhyaaya 4, Shloka 8) इत्यादिस्मृत्या विष्ण्ववताराणां साधुपरित्राणदुष्टनिग्रहादिप्रयोजनसत्वावेदनाच्च । किञ्च 'नृसिंहश्शरभेण हतः' इत्याप्यसङ्गतम् । नृसिंहतापनीये – 'एष देहान्ते तमसः परमं धाम प्राप्नुयात् । यत्र विरजो नृसिंहो भासते तत्र उपासते । तत्सदृशा मुनयः' (Avyakta Upanishad, Khanda 7) इत्यादिना नृसिंहस्य परमपदावस्थायित्वावेदनात् । तपनीयोपक्रमे नृसिंहस्य 'केवलं ज्योतिरेकमनाद्यनन्तम्' (Avyakta Upanishad, Khanda 1) इत्यादिनाऽनाद्यनन्तत्वावेदनाच्च । किबहुना बहुपुराणेषु नृसिंह एव शरभहन्तेत्यावेद्यते ॥
तथा हि पाद्मे – 'तौ युध्यमानौ च चिरं वेहेन बलवत्तमौ । न समं जग्मतुर्देावौ नृसिंहशरभाकृती ॥ ततः कुद्धो महाकायो नृसिंहो भीमविक्रमः । सहस्रकरजानत्र तस्य गात्रे न्यवेशयत् ॥ पतितं भीममत्युग्रं नृसिंहः शरभं रुषा । जधान निशितैस्तीक्ष्णैः नखैर्नखवरायुधः ॥ निहते शरभे तस्मिन् रौद्रे मधुनिषूदनम् । तुष्टुवुः पुण्डरीकाक्षं देवा देवर्षयस्तथ' इति ॥
वामनपुराणे – 'निकृत्य बाहुरुशिरा वज्रकल्पमुखैर्नखैः । मेरुपृष्ठे नृसिंहेन शरभश्चअथ सोऽपतत् ।' इति ॥
कौर्मे – 'स चञ्चुपञ्चाननमष्टपादं पक्षद्वयाढ्यं धननीलगात्रम् । स्फुरन्महातीव्रसहस्रहस्तं सहस्रशस्रं शरभस्वरूपम् ॥ करादादायप्रत्येकं मुखं चञ्चुपुटद्वयम् । विदार्य च नृसिंहस्तं हिरण्यकशिपुं यथा' इति ॥
आग्नेयपुराणे चत्वारिंशेऽध्याये – 'ततः क्षणेन शरभो नादपूरित दिङ्मुखः । अभ्याशमगमद्विष्णोर्व्यनदद्भैरवस्वनम् ॥ स तमभ्यागतं दृष्ट्वा नृसिंहः शरभं रुषा । नखैर्विदारयामास हिरण्यकशिपुं यथा' इति ॥
किञ्च 'हरिं हरन्तमनुयन्ति देवाः । विश्वस्येशानं वृषभं मतीनाम्' (Taittireeya Aaranyaka, Prashna 3, Anuvaaka 15, Mantra 1) इति श्रुतौ ईशानशब्दितस्य रुद्रस्य नृसिंहहतत्वमावेद्यते । विश्वस्येति प्रथमार्थे षष्ठी । विश्वेदेवाः ईशानं रुद्रं हरन्तं संहरन्तं हरिं अनुयन्तीति तच्छुत्यर्थविज्ञानात् । न च हरिं हरन्तं ईशानं विश्वेदेवा अनुयन्तीत्यन्वयोऽस्त्विति वाच्यम् । 'ब्रह्माणमिन्द्रं रुद्रं च यमं वरुणमेव च । निहत्य हरते यस्मात्तस्माद्धरिरिहोच्यते' (Padma Puraana, Uttara Khanda, Adhyaaya 226, Shlokas 86-87) इति स्मृत्या ब्रह्मेशानादिहन्तृत्वस्यैव हरिशब्दप्रवृत्तिनिमित्तत्वेन तादृशान्वयाङ्गीकारायोगात् ॥ न चैवं हरन्तमित्यस्य चैयर्थम् । हरिशब्दो न केवलं रूढः किन्तु यौगिकोऽपीत्यर्थज्ञापनेन तदवैय्यर्थ्योपपत्तेः ।
न च किञ्च 'तस्येन्द्रो वम्रिरूपेण धनुर्ज्यामच्छिनत्स्वयम्' (Taittireeya Aaranyaka, Prapaathaka 1, Anuvaaka 5) इत्युपक्रम्य 'एतद्रुद्रस्य धनुः । रुद्रस्यत्वेव धनुरार्त्निः शिर उत्पपेष । स प्रवर्ग्योऽभवत्' (ibid.) इति तैत्तिरीयारण्यके विष्णुप्रेरितनेन्द्रेण रुद्रशिरच्छेदः कृतः इति प्रतिपाद्यते । न चेन्द्रस्य रुद्रशिरःछेदः अनेकप्रमाणबाधित इति धनुस्रिशिरसम्बन्धितया निर्दिश्यमानस्य रुद्रशब्दस्य प्रसिद्धरुद्रान्ययक्षपरत्वमेवेति सामगैरधीयमानत्वादिति वाच्यम् । पूर्वोक्तश्रुतिस्मृत्यनुसारेण रुद्रशब्दस्य प्रसिद्धरुद्रपरत्वस्यैव न्याय्यत्वात् । प्रसिद्धेन्द्रस्य रुद्रशिरच्छेदसामर्थ्याभावेऽपि विष्णुचक्रसहकारेण विष्णुसहकारेण चेन्द्रस्य रुद्रशिरच्छेदसामर्थ्यसम्भवात् । न चात्र प्रमाणाभावः । 'रक्षितुं नैव शक्नोषि स्वात्मानमपि शङ्कर । युद्धे किं जेष्यसि त्वं मां पूर्ववृत्तं मयोच्यते ॥ यदा मद्भक्तशक्रस्य यज्ञ्ध्वंसः कृतस्त्वया । तदाहं तेा शिरश्छित्वा तत्क्रतू रक्षितो मया ॥ ततो मां प्रार्थयामास मनोभीष्टाय पार्वती । तदा वै मत्प्रसादेन प्राणान् लेभे भवान् शिव' इति उत्तरकूर्मपुराणे पार्वतीं पति विष्णुप्रशंसारूपेण शिववचनेन उपबृंहणात् ।
अत्रेदं किलोपाख्यानम् – क्वचित्कल्पे क्वचिदिन्द्रो नारायणपरायणः सर्वदेवान् परिभूय नारायणमेवोद्दिश्य यज्ञं कर्तुसुपचक्रमे । तदनन्तरं सर्वे देवाः इन्द्रयज्ञविघ्नकरणाय रुद्रं प्रेषयामासुः । ततो रुद्रो इन्द्रयज्ञविघ्नकरणाय प्रवृत्ते इन्द्रेण स्मारितो नारायणः यज्ञविघ्नकर्तुः रुद्रस्य शिरः चक्रेण चिच्छेद । तदनन्तरं पार्वतीस्तोत्रेण शिवमुज्जीवयामासेति । इदं च मत्स्यपुराणे नारसिंहपुराणे चावलोकनीयमिति नृसिंहविजय एव प्रामाणिकः । न तु शरभविजय इति सिद्धम् ॥ ८ ॥
रामचन्द्रेण रावणवधजनितब्रह्महत्यापनुत्तये सेतौ लिङ्गप्रतिष्ठातत्पूजादिकं कृतमिति यदुक्तं तदपि 'न कर्मणा वर्धते नो कनीयान्’ (Shatapatha Braahmana, Kaanda 14, Adhyaaya 7, Braahmana 2, Mantra 28/Brhadaaranyaka Upanishad, Adhyaaya 4, Braahmana 4, Mantra 23) । ‘स एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः' (Subaala Upanishad, Khanda 7) । 'न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा' (Bhagavat Geeta, Adhyaaya 4, Shloka 14) इत्यादिश्रुतिस्मृतिभिर्नारायणस्य पुण्यपापरूपकर्मलेपाभावप्रतिपादनात् तद्विरुद्धम् । न च रामचन्द्रो नारायणो न भवति किन्त्वन्य एवेति वाच्यम् । रामोपनिषदि रामायणदौ च रामचन्द्रस्य नारायणवतारत्वप्रतिपादनात् । वाल्मीकि प्रोक्ते सर्ववैदिकपरिगृहिते रामायणे तादृशार्थस्य प्रतिपादनाच्च । 'अत्र पूर्वं महादेवः प्रसादमकरोन्मम' (Vaalmiki Raamaayana, Yuddha Kaanda, Sarga 123/126, Shloka 19) इति वैदेहीं पतिप्रयाणे रावणवधात्पूर्वमेव महादेवप्रसादप्रतिपादनेन रावणवधजनितब्रह्महत्यापनुत्तये सेतौ लिङ्गप्रतिष्ठा तत्पूजादिकं कृतमित्यस्यार्थस्याप्रामाणिकत्वात् । यद्यति लिङ्गपुराणे रामायणसंक्षेपे – 'स कृत्वा वानरशतैर्' इत्यादिना सेतौ प्रतिष्ठा तत्पूजादिकं कृतमित्यावेद्यते । तथापि तस्य तामसत्वेन अनादरणीयत्वम् । न हि परब्रह्मभूतस्य रामचन्द्रस्य लिङ्गप्रतिष्ठा तत्पूजादिनानानवाप्तमवाप्तव्यं किञ्चिदस्ति । पितृवाक्यपरिपालनवद्धर्मसंस्थापनार्थं तदिति चेन्न । 'यत्र रुद्रार्चनं भस्मधारणं प्रोच्यते बुधैः । तदब्रह्मण्यविषयं विप्राणां तु न कर्हिचित्' इति हारीतस्मृत्या शिवलिङ्गार्चनस्य ब्राह्मणान्प्रत्यधर्मत्वावेदनाच्च । 'यान्येतानि देवत्राक्षत्राणि इन्द्रो वरुणस्सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान' इत्यादिश्रुतिभिः रुद्रस्य क्षत्रियत्वावेपनात् । 'यो वै स्वां देवतामितियजेत' इत्यादिना सामान्यतः स्वानुरूपदेवतोपासनाविधानाच्च ॥
शिवार्चनं शिवलिङ्गार्चनं च क्षत्रधर्म एवेति चेद्भवेदेषा कल्पना । यद्यत्र प्रमाणान्तरविरोधो न स्यात् । 'अहमप्यवतारेषु त्वां च रुद्र महाबल । तामसानां मोहनार्थं पूजयामि युगे युगे' (Padma Puraana, Uttara Khanda, Adhyaaya 235, Shloka 35) इति पाद्मपुराणे तारकब्रह्मराजसंहितायां विष्णुना स्वावतारेषु तामसमोहनार्थं हे । शिव मयापि त्वदर्चनं क्रियते इत्युक्तत्वेन तस्य क्षत्रधर्मत्वावेदनाच्च । 'अन्यदेवं वरं देहि प्रसिद्धं सर्वजन्तुपु । मर्त्यो भूत्वा भवानेव मम साधय केशव ॥ मां भजस्व च देवेश वरं मत्तो गृहाण च। येनाहं सर्वभूतानां ओऊज्यात्पूज्यतरोऽभवम् ॥ देवकार्योवतारेषु मानुषत्वमुपोयिवान् । त्वामेवाराधयिष्यामि मम त्वं वरदो भव ॥' (Varaaha Puraana, Adhyaaya 73, Rudra Geeta, Shlokas 42-44) इत्यादिना वाराहे रुद्रगीतायां कूर्मपुराणे च शिवस्य विष्ण्वर्च्यनीयतया वरलब्धत्वावेदनेन तस्य च कृष्णाआवतारादिषु अर्जुनादेस्सारध्यादिकरणवत् आश्रितसौलभ्यप्रदर्शनार्थत्वेन पग्त्वाविघतित्वाच्च । ततश्च 'सेतुमध्ये महादेवमीशानं कृत्तिवाससम् । स्थापयामास लिङ्ग तत् पूजयामास राघवः । तस्य देवो महादेवः स्थावगन्वरमुत्तमम्' इत्यादि कूर्मपुराणप्रतिपन्नलिङ्गप्रतिष्ठातत्पूजादिकं शिववरप्रार्थनानिमित्तमेवेति न तावता शिवापेक्षया विष्णोरपकर्षसिद्धिः । विश्वामित्रभारद्वाजागस्त्यदीनां नमस्कारवत्तेभ्यो वरप्राप्त्यादिवच्च रामावतारे शिवलिङ्गार्चनस्यापि विष्णोः श्रुतिस्मृत्यादिसिद्धपरब्रह्मत्वपरमस्वातन्त्र्याविधातित्वादिति ॥ ९ ॥ श्रीः ॥
एवं कृष्णस्य कौलासयात्रायां शिववरप्रदानेन पुत्रप्राप्त्यादिकमपि समर्थनीयमेवेति न कश्चिद्विरोधः । तत्र हि हरिवंशे कैलासयात्रायां पराभिमतशिववचनैः कृष्णस्य सर्वस्मात्परत्वस्य शिवस्य कृष्णोपासकत्वस्य चावेदनेन न कृष्णस्य पुत्रप्राप्त्यादिकमपि शिववरप्रसादेनेति तपश्चर्यादिकं नटनमात्रम् । तत्र हि – ‘ततो वृषध्वजो देवश्शूली साक्षादुमापतिः । करं करेण संस्पृश्य विष्णोश्चक्रधरस्य हि । प्रोवाच भगवान् रुद्रः केशवं गरुडध्वजम् । श्रृण्वतां सर्व देवानां म्य्नीनां भावितात्मनाम् । किमिदं देवदेवेश चक्रपाणे जनार्दन । तपश्चर्या किमर्थं ते प्रार्थना तव का विभो । स्वयं विष्णुर्भवान्नित्यः तपसा वा त्वया हरे । (Harivamsha, Bhavishya Parva, Adhyaaya 88, Shlokas 1-4) त्वत्तस्समभवद्विश्वं त्वयि सर्वं प्रलीयते । मद्रत्वं सर्वगो देवत्वमेवाहं जनार्दन । आवयोरन्तरं नास्ति शब्दैरर्थैर्जगत्पते । नामानि तव गोविन्द यानि लोके महान्ति च । तान्येव मम नामानि नात्र कार्या विचारणा । त्वदुपासा जगन्नाथ सेावास्तु मम गोपते । यश्च त्वां द्वेष्टि देवेश स मां द्वेष्टि न संशयः न तदस्ति विना देव यत्ते विरहितं क्वचित् । यदासीद्यच्च वर्तेत यच्च भावि जगत्पते । सर्वं त्वं देव देवेश विना किञ्चत्वया न हि ॥' (Harivamsha, Bhavishya Parva, Adhyaaya 88, Shlokas 59-64) इत्थं तानि वचनानि प्रसिद्धान्येव । यद्यपि 'आवयोरन्तरं नास्ति शब्दैरर्थर्जगत्पते' (ibid. Shloka 60) इत्यादिना शिवकेशवतोर्भेदो नास्तीत्यावेद्यते । तथापि 'वसूनामस्मि पावकः रुद्राणां च भवान्' (ibid. Shloka 55) इत्यादि पूर्ववाक्यानुसारेण 'सर्वं त्वं देवदेवेश' इत्युत्तरवाक्यानुसारेण च तदभेदवर्णनमिति न कश्चिद्विरोधः । अभेदस्य परैरनभ्युपगमाच्च । 'अहं त्वम्' (ibid. Shloka 60) इत्यत्र अहंशब्दस्य अहङ्कारतत्वपरत्वाभ्युपगमाच्चेति ॥ १० ॥ श्रीः ॥
यत्तु मोक्षप्रदस्य काशीक्षेत्रस्य शिवक्षेत्रत्वप्रसिद्धेः शिवस्यैव मोक्षप्रदातृत्वेन मुमुक्षूपास्यत्वमिति । तन्न । तत्र हि ’जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकब्रह्ममन्त्रं व्याचष्टे । येनासावमृतीभूत्वा मोक्षी भवति’ इति जाबालिश्रुतौ रामोपनिषदि च शिवस्य तारकब्रह्ममन्त्रोपदेष्टृत्वावेदनेन अविमुक्तस्य काशीक्षेत्रस्य शिवक्षेत्रत्वेऽपि मोक्षसाधनीभूतज्ञानाविषयत्वेन शिवस्य मुमुक्षूपास्यात्वायोगात् । तारकब्रह्ममन्त्रप्रतिपाद्यस्यैव मुमुक्षूपास्यत्वप्रतीतेश्च तत्र हि – ‘श्रीराममन्त्रं काश्यां वै जजाप वृषभध्वजः । मन्वन्तरसहस्रैस्तु जपहोमार्चनादिभिः । ततः प्रसन्नो भगवान् श्रीरामः प्राह शङ्करम् । वृणीष्व यदभीष्टं ते दास्यामि परमेश्वर ।' (similar to Raama Taapaneeya Upanishad) इति । अथ ‘सत्यानन्तचिदात्मानं प्राह श्रीराममीश्वरः । मणिकर्णे महाक्षेत्रे गङ्गाभुवि तटे पुनः । म्रियन्ते ये प्रभो देहि मुक्तिं नातो वरान्तरम्’ इति । ‘स होवाच श्रीरामचन्द्रः । क्षेत्रे त्वदीये देवेश यत्र कुत्रापि वा मृताः । क्रिमिकीटादयोप्याशु मुक्तास्सन्तु न चान्यथ' इति । ‘अविमुक्ते तव क्षेत्रे सर्वेषां मुक्तिसिद्धये । अहं सन्निहितस्तत्र शिलादिप्रतिमादिषु । मुमुक्षोर्दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् । उपदेक्ष्यसि मन्मन्त्रं स मुक्तो भविता शिव' इति शिवस्यैव तारकब्रह्ममन्त्रोपदेष्ट्टत्वावेदनाच्च ॥
किञ्च ‘देवतानां हितार्थाय कुरुष्व वचनं मम । तवाप्युज्जीवनोपायं कथयामि सुरोत्तम ॥ नित्यजप्यमहोरात्रं मम नामसहस्रकम् । हृदये मां सदा ध्यायन् जपेन्मन्तंर सदाव्ययम् ॥ षडक्षरं महामन्त्रं रघूणां कुलवर्धनम् । जपन् सन्निहितं देवि सदानन्दसुधाप्लुतः ॥ शुभमात्यन्तिकं ब्रह्मन् दास्यामि सततं शुभे । एतत्ते सर्वमाख्यातं त्वया पृष्टं शुभानने ॥ किमन्यच्छ्रोतुकामासि त्वत्पतिं परिपृच्छ माम् ॥‘ इत्याद्युमावचनोपबृंहणानुसाराच्च । ‘रुद्रस्तारकब्रह्ममन्त्रं व्याचष्ट' इत्यत्र तारकब्रह्ममन्त्रश्च राममन्त्र एव । न तु प्रणवः । यद्यपि अकारः प्रथमाक्षरो भवति । उकारो द्वितीयाक्षरो भवति । मकारस्तृतीयाक्षरो भवति मात्रा चतुर्थाक्षरो भवति विन्दुः पञ्चमाक्षरो भवति नादः षष्ठाक्षरो भवति इति प्रणवस्तारको भवति । तथापि राममन्त्रस्यैव तारकब्रह्ममन्त्रत्वं `तदेषा रामचन्द्रस्याप्यकाराद्यक्षरस्मृतिः । अखण्डैकरसानन्दतारकब्रह्मवाचकः ॥ रामायेति स विज्ञेयः सदानन्दचिदात्मकः । नमः पदं सुविज्ञेयं पूर्णानन्दैकविग्रहम् ॥' (Raama Uttara Taapaneeya Upanishad, Mantras 1-3) इति स्मृतिः ॥
यद्यपि प्रणवस्यैव तारकब्रह्ममन्त्रत्वं श्रूयते तथापि तारकरामब्रह्ममन्त्राद्यक्षरवत्वेन प्रणवस्यापि तारकत्वव्यमदेशः । ‘त्वत्तो वा ब्राह्मणो वापि ये लभन्ते षडक्षरम् । जीवन्तो मन्त्रसिद्धिं च मुक्तिं च प्राप्नुवन्ति ते ॥ मुमुक्षोर्दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् । उपदेक्ष्यसि मन्मन्त्रं स मुक्तो भविता शिवे' इति राममन्त्रस्यैव तारकब्रह्ममन्त्रत्वेन शिवोपदेष्ट्टत्वावेदनाच्च । न च शिवस्य मोक्षसाधनीभूतज्ञानविषयत्वेन मुमुक्षूपास्यत्वाभावे तत्र काशीक्षेत्रे मृतानां शिवसारूप्यप्रतिपादनमसङ्गतं स्यादिति वाच्यम् । तत्र यद्यपि काशीक्षेत्रे मृतानां शिवसारूप्य प्रतिपादनं चतुर्मुखादिलोकप्राप्तिरिव विष्णुसायुज्यप्राप्तेरवान्तरफलत्वे (नासङ्गत्यभावात्) ‘सायुज्यानां विशिष्टे द्वे मामकं वैष्णवं तथा । मां प्राप्य न निवर्तन्ते विष्णुं वा शुभलोचने' (Mahaabhaarata, Anushaasana Parva, Adhyaaya 246, Shloka 46) इति भारतवचनेन विष्णुसारूप्यसायुज्यादिप्राप्तेरिव शिवसारूप्यसायुज्यादिप्राप्तेरप्यपुनरागमनमावेद्यत इति । तथापि ‘ब्रह्मणस्सायुज्यं सलोकतामाप्नोति । एतासामेव देवतानां सायुज्यं सार्ष्टितां समानलोकतां याति' इति श्रुतौ परब्रह्मसायुज्यप्राप्तेः पूर्वमपि देवतान्तरादिसायुज्यादिप्राप्तिप्रतिपादनदर्शनेन विष्णुसायुज्यसारूप्यप्राप्तेः पूर्वमपि शिवसारूप्यसायुज्यादिप्राप्तेरपि सम्भवात् ॥
न चात्र प्रमाणाभावः । ‘तत्र हि जन्तोः प्राणेषु उत्क्रममाणेषु रुद्स्तारकब्रह्ममन्त्रं व्याचष्टे । येनासावमृतीभूत्वा मोक्षी भवति' (Jaabaala Upanishad) इति जाबालिश्रुतेरेवात्र प्रमाणत्वात् । तत्रामृतीभूत्वा इत्यनेन पुनरावृत्तिशून्यं शिवसारूप्यमभिधीयते । मोक्षी भवतीत्यनेन शिवसारूप्यसायुज्यादि लक्षणो मोक्षोऽभिधीयते । अन्यथा अन्यतरवैयर्थ्यापत्तेः । न च शिवसारूप्यसायुज्यादिरूप एव मोक्षः । विष्णुसारूप्यसायुज्यादिप्राप्तिस्तु अवान्तरफलमिति वैपरीत्यं किं न स्यात्? इति वाच्यम् । ‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान्पुण्यपापे विधूय निरञ्जनः पुरुषं साम्यमुपैति’ (Mundaka Upanishad, Mundaka 3, Khanda 1, Mantra 3) । ‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥‘ (Bhagavat Geeta, Adhyaaya 14, Shloka 2) इत्यादिश्रुतिस्मृतिभिः विष्णुप्रसादसाध्यस्यैव परमपुरुषार्थत्वावेदनाच्च । मुण्डकादिश्रुतिगतपुरुषशब्दस्य योगरूढिभ्यां च नारायणासाधारणनामत्वाच्चेति दिक् ॥ ११ ॥
किञ्च महाभारते – ‘ततस्तौ चक्रतुर्थुद्धं वासुदेवमहेश्वरौ । तद्युद्धमभवद्धोरं अचिन्त्यं तौ ततस्साक्षादन्योन्य जयकाङ्क्षिणौ । दिव्यान्यस्त्राणि तौ देवौ क्रुद्धौ मुमुचतुस्तदा । ततः कृष्णो रणं कृत्वा मुहूर्तं शूलपाणिना । विजित्य तं महादेवं ततो युद्धे जनार्दनः । अन्यान् स जित्वा द्वारस्थान् प्रविवेश पुरोत्तमम्’ इति शिवस्यैव कृष्णपराजितत्ववर्णनेन तदपेक्षया विष्णोरेवोत्कर्षोऽभ्युगन्तव्य’ इति ॥ १ ॥
किञ्च रामायणे ‘जृम्भितं तद्धनुश्शैयं दृष्ट्वा विष्णुपराक्रमैः । अधिकं मेनिरे विष्णुं देवास्सर्षिगणास्तथ’ (Vaalmiki Raamaayana, Baala Kaanda, Sarga 75, Shloka 19) इति ॥ २ ॥
श्रीमद्भागवते दशमस्कन्धे – ‘सरस्वत्यास्तटे राजन् ऋषयस्सत्रमासत । वितर्कस्समभूतेषां त्रिष्वधीशेषु को महान् । तस्य जिज्ञासया ते वै भृगुं ब्रह्मसुतं नृप । तज्ज्ञप्तौ प्रेषयामासुः सोऽभ्यगाद्ब्रह्मणस्सभाम्’ (Bhaagavata Puraana, Skandha 10, Adhyaaya 89, Shlokas 1-2) इत्यादिना ‘पुनस्स सत्रमासाद्य ऋषीणां ब्रह्मवादिनाम् । स्वानुभूतमशेषेण सर्वं भृगुरवर्णयत् । तन्निशम्याथ मुनयो विस्मिता मुक्तसंशयाः । भूयांसं श्रद्दधुर्विष्णुं यतश्शान्तिर्यतोऽभयम् । धर्मस्साक्षद्यतो ज्ञानं वैराग्यं च चतुर्विधम् । ऐश्वर्यमष्ठधा यस्माद्यतश्चात्ममलापहम्’ इत्यनेन च ब्रह्मवादिभिरेव ब्रह्मरुद्रापेक्षया विष्णोरेव परब्रह्मत्वावेदनेन विष्णोरेव परब्रह्मत्वञ्चोचितम् ॥ ३ ॥
किञ्च वृकासुरादिनिमित्तकापद्भ्यः शिवस्य विष्णुना मोचितत्वा वेदनेन च विष्णोरेवोत्कर्षोऽभ्युपगन्तव्यः । श्रीमद्भागवते दशमस्कन्धे – ‘स तद्वरपरीक्षार्थं शम्भोश्शीर्ष्णि वृकासुरः । स्वहस्तं दातुमारेभे सोऽबिभेत् स्वकृताच्छिवः । तेनोपदिष्टस्सन्त्रस्तः परिधावन् सवेपथुः । यावदन्तं दिवो भूमेः काष्ठानामधिकं दिवः । अजानानः प्रतिविधिं तूष्णीमास महेश्वरः । ततो वैकुण्ठमगमद्भास्वरं तमसः परम् । यत्र नारायणस्साक्षात् न्यासिनां परमागतिः । शान्तानां न्यस्तदण्डानां यतो नावर्तयेत्तमः । तं तथा व्यसनं दृष्ट्वा भगवान् वै जनार्दनः ।‘ इत्यादिना ‘एवं भगवता पृष्टो वचसामृतवर्षिणा । तत्क्रमादव्रवीत्तस्मै यथापूर्वमनुष्ठितम्’ । वृकासुरं प्रति भगवान् – ‘एवं चोदिततद्वाक्यं न वयं श्रद्दधीमहि । यो दक्षशापात्पैशाच्यं प्राप्तः प्रेतपिशाचराट् । यदि वस्तत्र विश्रम्भो दानवेन्द्रजगद्गुरौ । तर्ह्याङ्गुलैस्स्वशिरसि हस्तन्यासः प्रदीयताम् । यद्यसत्यं वचः शम्भोः कथञ्चिद्दानवर्षम । तदैनं जह्यसद्वाक्यं गतवाक्य ऋते पुनः । इत्थं भगवतश्चित्रैवचोभिश्च सुकौशलैः । तथेति निश्चितश्शीर्ष्णि स्वहस्तं कुमतिर्व्यधात् । अथापि तद्भिन्नशिराः वज्राहत इव क्षणात् । य एनमव्याहतशक्तिदं महापरस्य पुंसः परमात्मनो हरेः । गिरीशमोक्षं कथयेच्छुणोति वा विमुच्यते संसृतिभिस्तथारिभिरित्यन्तेन ॥ ४ ॥
किञ्च श्रीमद्भागवते गजेन्द्रमोक्षणे, गजेन्द्रेण स्वस्य ग्राहनिमित्तापद्विमोचनार्थम् – ‘सोऽहं विश्वसृजं विश्वमविश्वं विश्वमविश्वं विश्वमेधसम् । विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदंम्’ इत्यादिना गजेन्द्रेण जगत्कारण – सर्वान्तर्यामिपरब्रह्मविषयकप्रणतावनुष्ठितायां ‘एवं गजेन्द्रमुपवर्णित निर्विशेषं ब्रह्मादयो विविधलिङ्गभिदाभिमानाः । नैते यदोपससृपुर्निखिलात्मकत्वात् तत्राखिलामरवरो हरिराविसी’ दित्यन्तेन ब्रह्मादीनां तदनागमनेन विष्णोरेव तादृशागमनप्रतिपादनेन विन्णोरेव पग्ब्रह्मत्वं परमकारणत्वं चोचितम् ॥ ५ ॥
किञ्च विष्णुपादोदकसम्बन्धेनैव शिवस्य शिवत्वावेदनेन विष्णोरेव परब्रह्मत्वं परमकारणत्वं चोचितम् । ‘अथ सर्वेश्वरो विष्णुर्दितीयं पादमुत्तमम् । दिवि प्रसारयामास ब्रह्मलोकान्तमच्युतः । धन्योऽस्मीति वदन् ब्रह्मा गृहीत्वा स्वकमन्डळुम् । भक्त्या प्रक्षालयामास तत्र संस्थित वारिणा । अक्षय्यमभवत्तोयं तस्य विष्णोः प्रसादतः । तत्तीर्थं मेरुशिखरे चतुर्दिक्षु प्रवाहितम् । आत्मनः पावनार्थाय शिरसाहमधारयमिम्’ इतिपाद्मे । ‘यच्छोचनिस्सृतसरित्प्रबरोदकेन तीर्थेन मूर्ध्नि विधृतेन शिवः’ – शिवोऽभूत् इत्यादिना च प्रतिपादनात् ॥ ६ ॥
किञ्च चतुर्मृखपञ्चमशिरोल्लवनप्रयुत्तदोषाभिभूतत्वं शिवस्य विष्णुप्रसादात्ततो मुक्तिश्च प्रतिपाद्यते । उक्तश्चायमर्थो मत्स्यपुराणे — ‘तदा क्रोधपरीतेन संरक्तनयनेन च । वामाङ्गुष्ठनखाग्रेण शिरश्छिन्नं त्वया मया । तस्माच्छापसमादिष्ठः कषाली त्वं भविष्यसि । महती स्रवती धारा तस्य रक्तस्य निस्सृता । विष्णुप्रसादात् सुश्रोणि कपाली त्वं भविष्यसि । स्फुटितं यहुधायातं स्वप्नलब्धधनं यथा ।' इत्यनेन । चतुर्मुखपञ्चमशिरोल्लवनं शिवप्रेरितेन भैरवेण कृतम् न तु शिवेनेति चेन्न । प्रमाणाभावात् । तादृशप्रमाणसत्वेऽपि तस्य `यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् । अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्त वा उ ।' इत्यादि श्रुतिविरुद्धत्वाच्च । यत्तु चतुर्मुखपञ्चशिरः खिलनेन चतुर्मुखस्य श्रुतिषु प्रतिपादनादिति । `यो ब्राह्मणायापगुरेत्तं शतेन यातयेद्यो निहन्यात् सहस्रेण यातयेद्यो लोहितं कुर्यात् यावतः तत्प्रस्कन्द्य पांसून्संगृह्णात्तावतस्संवत्सरान् पितृलोकं न प्रजानादिति । तस्माद्ब्राह्मणाय नापगुरेन्न निदन्याल्लोहितं कुर्यात्तावताहैनसा भवतीति ॥ ७ ॥
उदाहृतानि धर्मशास्त्राणि पुराणानि च त्रिविधानि । सात्विकानि राजसानि तामसानि चेति । `वासिष्टं चैव हारीतं व्यासं पाराशलं तथा । भारद्वाजं काश्यपं च सात्विका मुक्तिदायिनः ॥ मानवं याज्ञवल्क्यं च आत्रेयं दाक्षमेव च । कात्यायनं वैष्णवं च राजसास्स्वर्गदायिनः ॥ कार्दमं बार्हस्पत्यं च सावृत्तं च यमस्मृतिः । शङ्खमौशीनसं चेति तामसा निरयप्रदाः' इत्यादिवचनानुसारात् । `वैष्णवं नारदीयं च तथा भागवतं शुभम् । गारुडं च तथा पाद्मं वाराहं शुभदर्शने । षडेतानि पुराणानि सात्विकानि मतानि वै । ब्रह्माण्डं ब्रह्मवैवर्तं मार्कण्डेयं तथैव च । भविष्यद्वामनं ब्राह्मं राजसानि निबोध मे । मात्स्यं कौर्मं तथा लैङ्गं शैवं स्कान्दं तथैव च । आग्नेयं च षडेतानि तामसा निरयप्रदाः ।' इत्यादिवचनानुसारात्तेषां परस्परविरोधे सात्विकोक्तमेव ग्राह्यम् । अन्यत् वाध्यमर्थान्तरपरं वा । `शास्त्राण्यपि च सर्वाणि सात्विकानि मतानि वै ॥ यानि सत्यवरं विष्णुं वदन्ति परमेश्वरम् । तानि शास्त्राणि सर्वाणि सात्विकानि मतानि वै ॥ प्रजापतिं कृशानुं च तथा दैवीं सरस्वतीम् । परत्वेन वदच्छास्त्रं राजसं परिचक्षते ॥ चच्छास्त्रं लिङ्गपारम्यं वामदेवमुमापतिम् । तमःप्रवर्तकं वक्ति तत्तामसमुदाहृत' मिति पाद्मपुराणवचनानुसारेण वैपरीत्यशङ्कानवकाशात् विष्णोरेव परब्रह्मत्वं परमकारणत्वं चोचितमिति सिद्धम् ॥
न्यायमौक्तिकमालायां शैवसर्वस्वखण्डनम् ।
विजयीन्द्रयतीन्द्रेण रचितं श्रीशनुष्टये ॥
जगद्गुरुसर्वतन्त्रस्वतन्त्रश्रीमद्विजयीन्द्रभिक्षुविरचितं शैवसर्वस्वखण्डनं सम्पूर्णम् ॥
॥ श्रीकृष्णार्पणमस्तु ॥